आ नो॑ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिद॑: । दे॒वा नो॒ यथा॒ सद॒मिद् वृ॒धे अस॒न्नप्रा॑युवो रक्षि॒तारो॑ दि॒वे – दि॑वे
ā́ no bhadrā́ḥ krátavo yantu viśváto’dabdhāso ápārītāsa udbhídaḥ | devā́ no yáthā sádám íd vṛ́dhe ásann áprāyuvo rakṣitā́ro divé-dive
May auspicious powers of purpose come unto us from every side—unbeguiled, unthwarted, breaking through! May the Gods be with us, that day by day, ever for our increase, they be unremiss, guardians unto us.
आ । नः॒ । भ॒द्राः । क्रत॑वः । यन्तु । वि॒श्वतः॑ । अद॑ब्धासः । अप॑रीतासः । उद्भिदः॑ । दे॒वाः । नः॒ । यथा॑ । सद॑म् । इत् । वृ॒धे । अस॑न् । अप्रा॑युवः । रक्षि॒तारः॑ । दि॒वे-दि॑वे