होता॑ यक्ष॒द्दैव्या॒ होता॑रा भि॒षजा॒ऽश्विनेन्द्रं॒ न जागृ॑वि॒ दिवा॒ नक्तं॒ न भे॑ष॒जै: शूष॒ᳪ सर॑स्वती भि॒षक् सीसे॑न दुह इन्द्रि॒यं पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॒र्यज॑
hótā yákṣad daívyā hótārā bhiṣájā’śvinéndraṃ ná jā́gṛvi divā́ náktaṃ ná bheṣajáiḥ śū́ṣaṃ sárasvatī bhiṣák sī́sena duha indríyaṃ páyaḥ sómaḥ parisrutā́ ghṛtáṃ mádhu vyàntu ā́jyasya hótar yája
Let the Hotṛ offer worship: the two divine Hotṛs, the Aśvins as physicians; (let them be) for Indra as the wakeful one, by day and by night, with remedies. Sarasvatī, the healer, with lead, milks out vigour—strength as milk. Let the milk, the Soma well strained, the ghee and honey, flow forth for the ghee-offering: O Hotṛ, sacrifice!
होता । यक्षत् । दैव्यौ । होतारौ । भिषजा । अश्विना । इन्द्रम् । न । जागृवि । दिवा । नक्तम् । न । भेषजैः । शूषम् । सरस्वती । भिषक् । सीसेन । दुह । इन्द्रियम् । पयः । सोमः । परि-स्रुताः । घृतम् । मधु । व्यन्तु । आज्यस्य । होतः । यज ।