होता॑ यक्षद्ब॒र्हिरूर्ण॑म्म्रदा भि॒षङ्नास॑त्या भि॒षजा॒ऽश्विनाऽश्वा॒ शिशु॑मती भि॒षग्धे॒नुः सर॑स्वती भि॒षग्दु॒ह इन्द्रा॑य भेष॒जं पय॒: सोम॑: परि॒स्रुता॑ घृ॒तं मधु॒ व्यन्त्वाज्य॑स्य॒ होत॑र्यज
hótā yákṣad barhír ūrṇámmradā bhiṣáṅ nā́satyā bhiṣájā’śvinā’śvā́ śíśumatī bhiṣág dhénuḥ sárasvatī bhiṣág dúha índrāya bheṣajáṃ páyaḥ sómaḥ parísrutā ghṛtáṃ mádhu vyàntv ā́jyasya hótar yaja
Let the Hotṛ offer: the Barhis, soft as wool, (is) a healer; the Nāsatyas (are) healers; the Aśvins (are) healers; their horses, rich in young, (are) healers; the milch-cow (is) a healer; Sarasvatī (is) a healer; milking (is) a remedy for Indra. May the milk, the well-strained Soma, the ghee, the honey be wafted forth for the ghee-offering: O Hotṛ, sacrifice!
होता । यक्षत् । बर्हिः । ऊर्णम्-म्रदा । भिषक् । नासत्या । भिषजा । अश्विना । अश्वाः । शिशुमती । भिषक् । धेनुः । सरस्वती । भिषक् । दुहः । इन्द्राय । भेषजम् । पयः । सोमः । परिस्रुताः । घृतम् । मधु । व्यन्तु । आज्यस्य । होतः । यज