स॒ᳪहि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्तस्य॒ मरी॑चयोऽप्स॒रस॑ आ॒युवो॒ नाम॑ । स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्य॒: स्वाहा॑
saṁhíto viśvá-sāmā́ sū́ryo gandharvás tásya marī́cayo’psárasa āyúvo nā́ma | sá na idáṁ bráhma kṣatráṁ pātu tásmai svā́hā vā́ṭ tā́bhyaḥ svā́hā
Compact and all-Sāman is the Sun; the Gandharva is he: his rays are the Apsarases, by name the Āyuvās. May he guard for us this Brahman and this Kṣatra. To him svāhā! Vaṭ! To them svāhā!
स॒ᳪहि॒तः । वि॒श्व-साम॑ा । सूर्यः॑ । गन्ध॒र्वः । तस्य॑ । मरी॑चयः । अ॒प्स॒रसः॑ । आ॒युवः॑ । नाम॑ । सः । नः॑ । इ॒दम् । ब्रह्म॑ । क्ष॒त्रम् । पा॒तु॒ । तस्मै॑ । स्वाहा॑ । वाट् । ताभ्यः॑ । स्वाहा॑