पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भेन्द्रा॒वथु॒: काव्यै॑र्द॒ᳪसना॑भिः । यत्सु॒रामं॒ व्यपि॑ब॒: शची॑भि॒: सर॑स्वती त्वा मघवन्नभिष्णक्
putrám iva pitarāv aśvinó bhéndrāv athuḥ kā́vyair daṃ́sānābhiḥ | yát surā́maṃ vyápibaḥ śácībhiḥ | sárasvatī tvā maghavann abhiṣṇak
As two fathers (help) a son, so did the Aśvins help thee, O bountiful Indra, with Kāvya-craft and wondrous powers; when thou didst drink the surā with thy efficacious energies. Sarasvatī, O Maghavan, hath pressed thee on (to victory).
पुत्रम्-इव । पितरौ । अश्विनौ । भेन्द्र । अवथुः । काव्यैः । दंसनाभिः । यत् । सुराम् । वि । अपिबः । शचीभिः । सरस्वती । त्वा । मघवन् । अभिष्णक्