Yogatattva
लययोगश्चित्तलयः कोटिशः परिकीर्तितः । गच्छंस्तिष्ठन् स्वपन् भुञ्जन् ध्यायेन् निष्कलमीश्वरम् ॥ स एव लययोगः स्यात् हठयोगमतः शृणु । यमश्च नियमश्चैव आसनं प्राणसंयमः ॥ प्रत्याहारो धारणा च ध्यानं भ्रूमध्यमे हरिम् । समाधिः समतावस्था साष्टाङ्गो योग उच्यते ॥
लय-योगः । चित्त-लयः । कोटिशः । परिकीर्तितः । गच्छन् । तिष्ठन् । स्वपन् । भुञ्जन् । ध्यायेत् । निष्कलम् । ईश्वरम् । सः । एव । लय-योगः । स्यात् । हठ-योगम् । अतः । शृणु । यमः । च । नियमः । च । एव । आसनम् । प्राण-संयमः । प्रत्याहारः । धारणा । च । ध्यानम् । भ्रू-मध्यमे । हरिम् । समाधिः । समता-अवस्था । स-अष्टाङ्गः । योगः । उच्यते ।
layayogaś cittalayaḥ koṭiśaḥ parikīrtitaḥ | gacchaṃs tiṣṭhan svapan bhuñjan dhyāyet niṣkalam īśvaram || sa eva layayogaḥ syād haṭhayogam ataḥ śṛṇu | yamaś ca niyamaś caiva āsanaṃ prāṇasaṃyamaḥ || pratyāhāro dhāraṇā ca dhyānaṃ bhrūmadhyame harim | samādhiḥ samatāvasthā sāṣṭāṅgo yoga ucyate ||
ಲಯಯೋಗವೆಂದರೆ ಚಿತ್ತಲಯ; ಅದು ಕೋಟಿಶಃ ರೀತಿಗಳಲ್ಲಿ ಕೀರ್ತಿತವಾಗಿದೆ. ನಡೆಯುತ್ತಾ, ನಿಂತು, ನಿದ್ರಿಸುತ್ತಾ ಅಥವಾ ಭೋಜನಮಾಡುತ್ತಾ ಕೂಡ ನಿಷ್ಕಲ ಈಶ್ವರನ ಧ್ಯಾನ ಮಾಡಬೇಕು. ಅದೇ ಲಯಯೋಗ. ಈಗ ಹಠಯೋಗವನ್ನು ಕೇಳು: ಯಮ-ನಿಯಮ, ಆಸನ, ಪ್ರಾಣಸಂಯಮ; ಪ್ರತ್ಯಾಹಾರ, ಧಾರಣೆ, ಮತ್ತು ಭ್ರೂಮಧ್ಯದಲ್ಲಿ ಹರಿಯ ಧ್ಯಾನ; ಸಮಾಧಿ—ಸಮತೆಯ ಸ್ಥಿತಿ—ಇದೇ ಅಷ್ಟಾಂಗ ಯೋಗವೆಂದು ಹೇಳುತ್ತಾರೆ.
Laya-yoga—(namely) the dissolution of the mind—is proclaimed in countless ways. While walking, standing, sleeping, or eating, one should meditate on the partless Lord. That indeed is laya-yoga. Now hear haṭha-yoga: yama and niyama, posture, restraint of breath; withdrawal (of the senses), concentration, and meditation on Hari in the middle of the eyebrows; samādhi, the state of equanimity—this is called the yoga of eight limbs.