Katharudra
प्रत्यगात्मतया भाति ज्ञानाद्वेदान्तवाक्यजात् ॥
शुद्धमीश्वरचैतन्यं जीवचैतन्यमेव च ।
प्रमाता च प्रमाणं च प्रमेयं च फलं तथा ॥
इति सप्तविधं प्रोक्तं भिद्यते व्यवहारतः ।
मायोपाधिविनिर्मुक्तं शुद्धमित्यभिधीयते ॥
मायासंबन्धतश्चेशो जीवोऽविद्यावशस्तथा ।
अन्तःकरणसंबन्धात्प्रमातेत्यभिधीयते ॥
तथा तद्वृत्तिसंबन्धात्प्रमाणमिति कथ्यते ।
अज्ञातमपि चैतन्यं प्रमेयमिति कथ्यते ॥
तथा ज्ञातं च चैतन्यं फलमित्यभिधीयते ॥
प्रत्यक्-आत्मतया भाति । ज्ञानात् वेदान्त-वाक्य-जात् ॥
शुद्धम् ईश्वर-चैतन्यम् । जीव-चैतन्यम् एव च ।
प्रमाता च । प्रमाणम् च । प्रमेयम् च । फलम् तथा ॥
इति सप्त-विधम् प्रोक्तम् । भिद्यते व्यवहारतः ।
माया-उपाधि-विनिर्मुक्तम् शुद्धम् इति अभिधीयते ॥
माया-सम्बन्धतः च ईशः । जीवः अविद्या-वशः तथा ।
अन्तःकरण-सम्बन्धात् प्रमाता इति अभिधीयते ॥
तथा तत्-वृत्ति-सम्बन्धात् प्रमाणम् इति कथ्यते ।
अज्ञातम् अपि चैतन्यम् प्रमेयम् इति कथ्यते ॥
तथा ज्ञातम् च चैतन्यम् फलम् इति अभिधीयते ॥
pratyagātmatayā bhāti jñānād vedāntavākyajāt ||
śuddham īśvaracaitanyaṃ jīvacaitanyam eva ca |
pramātā ca pramāṇaṃ ca prameyaṃ ca phalaṃ tathā ||
iti saptavidhaṃ proktaṃ bhidyate vyavahārataḥ |
māyopādhivinirmuktaṃ śuddham ity abhidhīyate ||
māyāsambandhataś ceśo jīvo’vidyāvaśas tathā |
antaḥkaraṇasambandhāt pramātety abhidhīyate ||
tathā tadvṛttisambandhāt pramāṇam iti kathyate |
ajñātam api caitanyaṃ prameyam iti kathyate ||
tathā jñātaṃ ca caitanyaṃ phalam ity abhidhīyate ||
ವೇದಾಂತ ವಾಕ್ಯಗಳ ಸಮೂಹದಿಂದ ಜನಿಸುವ ಜ್ಞಾನದಿಂದ ಆತ್ಮನು ಪ್ರತ್ಯಗಾತ್ಮನಾಗಿ ಪ್ರಕಾಶಿಸುತ್ತಾನೆ. ಶುದ್ಧ ಚೈತನ್ಯ, ಈಶ್ವರ-ಚೈತನ್ಯ, ಜೀವ-ಚೈತನ್ಯ, ಪ್ರಮಾತಾ, ಪ್ರಮಾಣ, ಪ್ರಮೇಯ ಮತ್ತು ಫಲ—ಈ ಏಳು ವಿಧ ಭೇದವು ವ್ಯವಹಾರದಲ್ಲಿ ಮಾತ್ರ ವಿಭಿನ್ನವಾಗಿ ಬೋಧಿಸಲ್ಪಟ್ಟಿದೆ. ಮಾಯೆಯ ಉಪಾಧಿಯಿಂದ ಮುಕ್ತವಾದುದು ‘ಶುದ್ಧ’ ಎಂದು ಕರೆಯುತ್ತಾರೆ. ಮಾಯಾಸಂಬಂಧದಿಂದ ಅದು ‘ಈಶ್ವರ’; ಅವಿದ್ಯೆಯ ಅಧೀನದಿಂದ ಅದು ‘ಜೀವ’. ಅಂತಃಕರಣಸಂಬಂಧದಿಂದ ‘ಪ್ರಮಾತಾ’; ಮನೋವೃತ್ತಿಸಂಬಂಧದಿಂದ ‘ಪ್ರಮಾಣ’ ಎಂದು ಹೇಳುತ್ತಾರೆ. ತಿಳಿಯದಿದ್ದರೂ ಚೈತನ್ಯ ‘ಪ್ರಮೇಯ’; ತಿಳಿದಾಗ ಅದೇ ಚೈತನ್ಯ ‘ಫಲ’ ಎಂದು ಕರೆಯಲ್ಪಡುತ್ತದೆ.
Through the knowledge arising from the collection of Vedāntic statements, (the Self) shines as the inner Self. Pure consciousness, Īśvara-consciousness, jīva-consciousness, the knower, the means of knowledge, the object of knowledge, and the result—this sevenfold (classification) is taught as a distinction only in empirical dealings. That which is free from the limiting adjunct of māyā is called ‘pure’. By relation to māyā it is called Īśvara; as under the sway of avidyā it is called jīva. By relation to the inner organ it is called the knower; by relation to its mental modification it is called the means of knowledge. Consciousness, though unknown, is called the object; consciousness, when known, is called the result.