Katharudra
अस्थिस्नाय्वादिरूपोऽयं शरीरं भाति देहिनाम् ।
योऽयमन्नमयो ह्यात्मा भाति सर्वशरीरिणः ॥
ततः प्राणमयो ह्यात्मा विभिन्नश्चान्तरः स्थितः ।
ततो विज्ञान आत्मा तु ततोऽन्यश्चान्तरः स्वतः ॥
आनन्दमय आत्मा तु ततोऽन्यश्चान्तरस्थितः ।
योऽयमन्नमयः सोऽयं पूर्णः प्राणमयेन तु ॥
मनोमयेन प्राणोऽपि तथा पूर्णः स्वभावतः ।
तथा मनोमयो ह्यात्मा पूर्णो ज्ञानमयेन तु ॥
आनन्देन सदा पूर्णः सदा ज्ञानमयः सुखम् ।
तथानन्दमयश्चापि ब्रह्मणोऽन्येन साक्षिणा ॥
सर्वान्तरेण पूर्णश्च ब्रह्म नान्येन केनचित् ।
यदिदं ब्रह्मपुच्छाख्यं सत्यज्ञानद्वयात्मकम् ॥
अस्थि-स्नायु-आदि-रूपः । अयम् । शरीरम् । भाति । देहिनाम् ।
यः । अयम् । अन्न-मयः । हि । आत्मा । भाति । सर्व-शरीरिणः ॥
ततः । प्राण-मयः । हि । आत्मा । विभिन्नः । च । अन्तरः । स्थितः ।
ततः । विज्ञानः । आत्मा । तु । ततः । अन्यः । च । अन्तरः । स्वतः ॥
आनन्द-मयः । आत्मा । तु । ततः । अन्यः । च । अन्तर-स्थितः ।
यः । अयम् । अन्न-मयः । सः । अयम् । पूर्णः । प्राण-मयेन । तु ॥
मनो-मयेन । प्राणः । अपि । तथा । पूर्णः । स्व-भावतः ।
तथा । मनो-मयः । हि । आत्मा । पूर्णः । ज्ञान-मयेन । तु ॥
आनन्देन । सदा । पूर्णः । सदा । ज्ञान-मयः । सुखम् ।
तथा । आनन्द-मयः । च । अपि । ब्रह्मणः । अन्येन । साक्षिणा ॥
सर्व-अन्तरेण । पूर्णः । च । ब्रह्म । न । अन्येन । केनचित् ।
यत् । इदम् । ब्रह्म-पुच्छ-आख्यम् । सत्य-ज्ञान-द्वय-आत्मकम् ॥
asthi-snāyv-ādi-rūpo’yaṃ śarīraṃ bhāti dehinām |
yo’yam annamayo hy ātmā bhāti sarva-śarīriṇaḥ ||
tataḥ prāṇamayo hy ātmā bhinnaś cāntaraḥ sthitaḥ |
tato vijñāna ātmā tu tato’nyaś cāntaraḥ svataḥ ||
ānandamaya ātmā tu tato’nyaś cāntara-sthitaḥ |
yo’yam annamayaḥ so’yaṃ pūrṇaḥ prāṇamayena tu ||
manomayena prāṇo’pi tathā pūrṇaḥ svabhāvataḥ |
tathā manomayo hy ātmā pūrṇo jñānamayena tu ||
ānandena sadā pūrṇaḥ sadā jñānamayaḥ sukham |
tathānandamayaś cāpi brahmaṇo’nyena sākṣiṇā ||
sarvāntareṇa pūrṇaś ca brahma nānyena kenacit |
yad idaṃ brahma-pucchākhyaṃ satya-jñāna-dvay-ātmakam ||
ಅಸ್ಥಿ, ಸ್ನಾಯು ಮೊದಲಾದ ರೂಪದಲ್ಲಿ ದೇಹಧಾರಿಗಳ ಈ ಶರೀರವು ಕಾಣುತ್ತದೆ; ಎಲ್ಲ ಶರೀರಿಗಳಲ್ಲಿಯೂ ಪ್ರಕಾಶಿಸುವ ‘ಅನ್ನಮಯ ಆತ್ಮ’ ಇದೇ. ನಂತರ ಒಳಗೆ ವಿಭಿನ್ನವಾಗಿ ‘ಪ್ರಾಣಮಯ ಆತ್ಮ’ ಸ್ಥಿತನಾಗಿದ್ದಾನೆ; ನಂತರ ‘ವಿಜ್ಞಾನ ಆತ್ಮ’ ಮತ್ತು ಅದರೊಳಗೂ ಸ್ವತಃ ಇನ್ನೊಂದು ಅಂತರಂಗ ತತ್ತ್ವವಿದೆ. ‘ಆನಂದಮಯ ಆತ್ಮ’ವೂ ಅದಕ್ಕಿಂತ ಭಿನ್ನವಾಗಿ ಒಳಗೆ ಸ್ಥಿತನಾಗಿದ್ದಾನೆ. ಈ ಅನ್ನಮಯ (ಕೋಶ) ಪ್ರಾಣಮಯದಿಂದ ಪರಿಪೂರ್ಣ; ಪ್ರಾಣಮಯವು ಸ್ವಭಾವತಃ ಮನೋಮಯದಿಂದ ಪರಿಪೂರ್ಣ; ಮತ್ತು ಮನೋಮಯ ಆತ್ಮ ಜ್ಞಾನಮಯದಿಂದ ಪರಿಪೂರ್ಣ. ಜ್ಞಾನಮಯನು ಸದಾ ಆನಂದದಿಂದ ತುಂಬಿರುವವನು—ನಿತ್ಯ ಸುಖಸ್ವರೂಪ. ಆನಂದಮಯವೂ ಬ್ರಹ್ಮನಿಂದ ಭಿನ್ನವಾದ ಸಾಕ್ಷಿ (ಸಾಕ್ಷಿನ್)ಯಿಂದ ಪ್ರಕಾಶಿತ/ಪರಿಪೂರ್ಣವಾಗುತ್ತದೆ. ಬ್ರಹ್ಮನು ಎಲ್ಲರ ಅಂತರದಲ್ಲಿ ಪೂರ್ಣ; ಬೇರೆ ಯಾವುದರಿಂದಲೂ ಅಲ್ಲ. ‘ಬ್ರಹ್ಮಪುಚ್ಛ’ವೆಂದು ಕರೆಯಲ್ಪಡುವ ಈ ತತ್ತ್ವವು ಸತ್ಯ ಮತ್ತು ಜ್ಞಾನ ಎಂಬ ದ್ವಿಲಕ್ಷಣ ಸ್ವರೂಪವಾಗಿದೆ.
This body of embodied beings appears in the form of bones, sinews, and so on; this is the food-made self (annamaya ātman) that appears for all who have bodies. Then the vital-made self (prāṇamaya ātman), distinct, is situated within; then the self of cognition/discernment (vijñāna ātman), and then another, inner by itself. The bliss-made self (ānandamaya ātman) is another, situated within that. This food-made (self) is filled by the vital-made; the vital (self) likewise is filled by the mind-made (manomaya) by its nature; and the mind-made self is filled by the knowledge-made (jñānamaya). The knowledge-made is ever filled with bliss—ever happiness. And the bliss-made too is (filled/illumined) by another, the witness (sākṣin), distinct from Brahman. Brahman is full within all, and not by any other. This (principle) called the ‘tail of Brahman’ (brahma-puccha) is of the nature of truth and knowledge (as a dual characterization).