Aitreya
यदेतद्धृदयं मनश्चैतत् । संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिमतिर्मनीषा जूतिः स्मृतिः संकल्पः क्रतुरसुः कामो वश इति । सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ॥२॥
यत् । एतत् । हृदयम् । मनः । च । एतत् । संज्ञानम् । आज्ञानम् । विज्ञानम् । प्रज्ञानम् । मेधा । दृष्टिः । धृतिः । मतिः । मनीषा । जूतिः । स्मृतिः । संकल्पः । क्रतुः । असुः । कामः । वशः । इति । सर्वाणि । एव । एतानि । प्रज्ञानस्य । नामधेयानि । भवन्ति ॥२॥
yad etad hṛdayaṃ manaś caitat | saṃjñānam ājñānaṃ vijñānaṃ prajñānaṃ medhā dṛṣṭir dhṛtir matir manīṣā jūtiḥ smṛtiḥ saṅkalpaḥ kratur asuḥ kāmo vaśa iti | sarvāṇy evaitāni prajñānasya nāmadheyāni bhavanti ||2||
ಇದು ಹೃದಯ, ಇದು ಮನಸ್ಸು—ಇದೇ ಚೈತನ್ಯ: ಸಂಜ್ಞಾನ, ಆಜ್ಞಾನ, ವಿಜ್ಞಾನ, ಪ್ರಜ್ಞಾನ; ಮೇಧಾ, ದೃಷ್ಟಿ, ಧೃತಿ, ಮತಿ, ಮನೀಷಾ; ಜೂತಿ, ಸ್ಮೃತಿ, ಸಂಕಲ್ಪ, ಕ್ರತು, ಅಸು, ಕಾಮ, ವಶ—ಇವೆಲ್ಲವೂ ಪ್ರಜ್ಞಾನ (ಚೇತನ)ದ ಹೆಸರುಗಳೇ॥೨॥
That which is this heart, and this mind—this is consciousness: perception, comprehension, discriminative knowledge, higher knowing; intelligence, vision, steadfastness, thought, insight; impulse, memory, volition, resolve, vital force, desire, and control—indeed all these are names of consciousness (prajñāna).