अ॒सु॒र्या नाम॑ ते लो॒का अ॒न्धेन॒ तम॒सावृ॑ताः । ताँस्ते प्रेत्यापि॑ गच्छन्ति॒ ये के चा॑त्म॒हनो॒ जना॑:
asuryā́ nā́ma te lokā́ andhéna támasāvṛtā́ḥ | tā́ṃs te prétyā́pi gacchanti yé ké cā́tma-háno jánāḥ ||
ಸೂರ್ಯರಹಿತವಾಗಿವೆ, ನಿಶ್ಚಯವಾಗಿ, ಆ ಲೋಕಗಳು; ಅಂಧ ತಮಸ್ಸಿನಿಂದ ಆವೃತವಾಗಿವೆ. ಆತ್ಮಹನನ ಮಾಡುವ ಯಾವ ಮಾನವರಾದರೂ, ಅವರು ಮರಣಾನಂತರವೂ ಅಲ್ಲಿಯೇ ಹೋಗುತ್ತಾರೆ.
असुर्याः । नाम । ते । लोकाः । अन्धेन । तमसा । आवृताः । तान् । ते । प्रेत्य । अपि । गच्छन्ति । ये । के । च । आत्महनः । जनाः ।