द्यौ: शान्ति॑र॒न्तरि॑क्ष॒ᳪ शान्ति॑: पृथि॒वी शान्ति॒राप॒: शान्ति॒रोष॑धय॒: शान्ति॑: । वन॒स्पत॑य॒: शान्ति॒र्विश्वे॑ दे॒वाः शान्ति॒र्ब्रह्म॒ शान्ति॒: सर्व॒ᳪ शान्ति॒: शान्ति॑रे॒व शान्ति॒: सा मा॒ शान्ति॑रेधि
dyáuḥ śā́ntiḥ antárikṣaṃ śā́ntiḥ pṛthivī́ śā́ntiḥ ā́paḥ śā́ntiḥ óṣadhayaḥ śā́ntiḥ | vanáspátayaḥ śā́ntiḥ víśve devā́ḥ śā́ntiḥ bráhma śā́ntiḥ sárvaṃ śā́ntiḥ śā́ntir evá śā́ntiḥ sā́ mā śā́ntir edhi ||
ದ್ಯೌನಲ್ಲಿ ಶಾಂತಿ; ಅಂತರಿಕ್ಷದಲ್ಲಿ ಶಾಂತಿ; ಪೃಥಿವಿಯಲ್ಲಿ ಶಾಂತಿ; ಜಲಗಳಲ್ಲಿ ಶಾಂತಿ; ಔಷಧಿಗಳಲ್ಲಿ ಶಾಂತಿ; ವನಸ್ಪತಿಗಳಲ್ಲಿ ಶಾಂತಿ. ಸರ್ವ ದೇವತೆಗಳಲ್ಲಿ ಶಾಂತಿ; ಬ್ರಹ್ಮನಲ್ಲಿ ಶಾಂತಿ; ಸರ್ವದಲ್ಲೂ ಶಾಂತಿ; ಶಾಂತಿ—ಹೌದು, ಶಾಂತಿ. ಆ ಶಾಂತಿ ನನಗೆ ಲಭಿಸಲಿ.
द्यौः । शान्तिः । अ॒न्तरि॑क्षम् । शान्तिः । पृथि॒वी । शान्तिः । आपः । शान्तिः । ओषधयः । शान्तिः । वनस्पतयः । शान्तिः । विश्वे । देवाः । शान्तिः । ब्रह्म । शान्तिः । सर्वम् । शान्तिः । शान्तिः । एव । शान्तिः । सा । मा । शान्तिः । एधि ।