Sukta 1.186
इयं सा वो अस्मे दीधितिर्यजत्रा अपिप्राणी च सदनी च भूयाः । नि या देवेषु यतते वसूयुर्विद्यामेषं वृजनं जीरदानुम् ॥
इ॒यं सा वो॑ अ॒स्मे दीधि॑तिर्यजत्रा अपि॒प्राणी॑ च॒ सद॑नी च भूयाः । नि या दे॒वेषु॒ यत॑ते वसू॒युर्वि॒द्यामे॒षं वृ॒जनं॑ जी॒रदा॑नुम् ॥
iyáṃ sā vo asmè dī́dhitir yajatrā api-prā́ṇī ca sadánī ca bhūyāḥ | ní yā devéṣu yátate vasūyúr vidyā́meṣaṃ vṛ́janaṃ jī́radānum ||
ಹೇ ಯಜತ್ರ ದೇವರೆ, ಇದು ನಿಮ್ಮದೇ ಆ ಪ್ರಕಾಶಮಯ ದೀಧಿತಿ (ಜ್ಯೋತಿ/ಪ್ರೇರಣೆ)—ನಮಗೆ ಅದು ಉಸಿರಾಡುವ ಪೂರ್ಣತೆಯಾಗಿ ಮತ್ತು ಆಸನಸ್ಥ ಸ್ಥೈರ್ಯವಾಗಿ ಇರಲಿ. ಇದರ ಮೂಲಕ, ವಸುಯು (ಸಂಪತ್ತನ್ನು ಬಯಸುವವನು) ದೇವರೊಳಗೆ ಯತ್ನಿಸುವಾಗ, ದೀರ್ಘದಾನು (ದೀರ್ಘಕಾಲದ ದಾನ) ನೀಡುವ ಈ ಬಲಿಷ್ಠ ವೃಜನ (ಸಮೂಹ/ಸೇನೆ)ವನ್ನು ನಾವು ಅರಿಯುವವರಾಗೋಣ.
इ॒यम् । सा । वः॒ । अ॒स्मे इति॑ । दीधि॑तिः । य॒ज॒त्राः॒ । अ॒पि॒ऽप्राणी॑ । च॒ । सद॑नी । च॒ । भू॒याः॒ । नि । या । दे॒वेषु॑ । यत॑ते । व॒सु॒ऽयुः । वि॒द्याम॑ । इ॒षम् । वृ॒जन॑म् । जी॒रऽदा॑नुम् ॥इयम् । सा । वः । अस्मे इति । दीधितिः । यजत्राः । अपिप्राणी । च । सदनी । च । भूयाः । नि । या । देवेषु । यतते । वसुयुः । विद्याम । इषम् । वृजनम् । जीरदानुम् ॥iyam | sā | vaḥ | asme iti | dīdhitiḥ | yajatrāḥ | api-prāṇī | ca | sadanī | ca | bhūyāḥ | ni | yā | deveṣu | yatate | vasu-yuḥ | vidyāma | iṣam | vṛjanam | jīra-dānum