Sukta 1.105
सुपर्णा एत आसते मध्य आरोधने दिवः । ते सेधन्ति पथो वृकं तरन्तं यह्वतीरपो वित्तं मे अस्य रोदसी ॥
सु॒प॒र्णा ए॒त आ॑सते॒ मध्य॑ आ॒रोध॑ने दि॒वः । ते से॑धन्ति प॒थो वृकं॒ तर॑न्तं य॒ह्वती॑र॒पो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥
supárṇā etá āsate mádhya āródhane diváḥ | té sedhanti pathó vṛ́kaṃ tárantaṃ yáhvatīr apó vittáṃ me asyá rodasī ||
ಸುಪರ್ಣರು (ಸುಂದರ ರೆಕ್ಕೆಗಳವರು) ಇಲ್ಲಿ ದಿವ್ಯದ ಮಧ್ಯಸ್ಥ ಅಡ್ಡಗಟ್ಟಿನಲ್ಲಿ ಆಸೀನರಾಗಿದ್ದಾರೆ. ಯಹ್ವತೀರಪಃ—ಪ್ರಚಂಡ ಜಲಧಾರೆಗಳನ್ನು—ದಾಟಲು ಯತ್ನಿಸುವ ವೃಕನನ್ನು ಅವರು ಮಾರ್ಗಗಳಿಂದ ತಡೆಯುತ್ತಾರೆ. ಹೇ ದ್ಯಾವಾ-ಪೃಥಿವೀ, ನನ್ನ ಈ ಅನ್ವೇಷಣೆಯ ನಿಧಿಯನ್ನು ತಿಳಿಯಿರಿ.
सु॒ऽप॒र्णाः । ए॒ते । आ॒स॒ते॒ । मध्ये॑ । आ॒ऽरोध॑ने । दि॒वः । ते । से॒ध॒न्ति॒ । प॒थः । वृक॑म् । तर॒न्त॒म् । य॒ह्वतीः॑ । अ॒पः । वि॒त्तम् । मे॒ । अ॒स्य । रो॒द॒सी॒ इति॑ ॥सुपर्णाः । एते । आसते । मध्ये । आरोधने । दिवः । ते । सेधन्ति । पथः । वृकम् । तरन्तम् । यह्वतीः । अपः । वित्तम् । मे । अस्य । रोदसी इति ॥su-parṇāḥ | ete | āsate | madhye | ārodhane | divaḥ | te | sedhanti | pathaḥ | vṛkam | tarantam | yahvatīḥ | apaḥ | vittam | me | asya | rodasī iti