या ते॑ घर्म दि॒व्या शुग्या गा॑य॒त्र्याᳪ ह॑वि॒र्धाने॑ । सा त॒ आ प्या॑यतां॒ निष्टया॑यतां॒ तस्यै॑ ते॒ स्वाहा॑ ।
या ते॑ घर्मा॒न्तरि॑क्षे॒ शुग्या त्रि॒ष्टुभ्याग्नी॑ध्रे । सा त॒ आ प्या॑यतां॒ निष्टया॑यतां॒ तस्यै॑ ते॒ स्वाहा॑ ।
या ते॑ घर्म पृथि॒व्याᳪ शुग्या जग॑त्याᳪ सद॒स्या॒ । सा त॒ आ प्या॑यतां॒ निष्टया॑यतां॒ तस्यै॑ ते॒ स्वाहा॑
yā́ te gharma divyā́ śugyā́ gāyátryāṃ havirdhā́ne | sā́ ta ā́ pyāyatāṃ níṣṭayāyatāṃ tásyai te svā́hā |
yā́ te gharma antárikṣe śugyā́ triṣṭúbhyāgnī́dhre | sā́ ta ā́ pyāyatāṃ níṣṭayāyatāṃ tásyai te svā́hā |
yā́ te gharma pṛthivyā́ṃ śugyā́ jagátyāṃ sadásyā | sā́ ta ā́ pyāyatāṃ níṣṭayāyatāṃ tásyai te svā́hā |
That radiant (power) of thine, O Gharma, which is in heaven, in the Havirdhāna, in the Gāyatrī,—may it for thee wax full and become firmly established: to that (power) of thine be Svāhā! That radiant (power) of thine, O Gharma, which is in the mid-air, in the Āgnīdhra, in the Triṣṭubh,—may it for thee wax full and become firmly established: to that (power) of thine be Svāhā! That radiant (power) of thine, O Gharma, which is on earth, in the Sadas, in the Jagatī,—may it for thee wax full and become firmly established: to that (power) of thine be Svāhā!
या । ते । घर्म । दिव्या । शुग्या । गायत्र्याम् । हविर्धाने । सा । ते । आ । प्यायताम् । निष्टयायताम् । तस्यै । ते । स्वाहा ।
या । ते । घर्म । अन्तरिक्षे । शुग्या । त्रिष्टुभ्या । अग्नीध्रे । सा । ते । आ । प्यायताम् । निष्टयायताम् । तस्यै । ते । स्वाहा ।
या । ते । घर्म । पृथिव्याम् । शुग्या । जगत्याम् । सदस्या । सा । ते । आ । प्यायताम् । निष्टयायताम् । तस्यै । ते । स्वाहा ।