अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चर॑न्तम् । स स॒ध्रीची॒ः स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्त्ति॒ भुव॑नेष्व॒न्तः
ápaśyaṃ gopā́m anipadyamā́nam ā́ ca párā ca pathíbhiś cárantam | sá sadhṛ́cīḥ sá víṣūcīr vásāna ā́ varīvartti bhúvaneṣv antáḥ
I beheld the Herdsman, never stumbling, moving to and fro along his paths. He, wearing paths that meet and paths that part, within the worlds doth ever turn and move about.
अप॑श्यम् । गो॒पाम् । अनि॑पद्यमानम् । आ । च॒ । परा॑ । च॒ । प॒थिभिः॑ । चर॑न्तम् । सः । स॒ध्रीचीः॑ । सः । विषू॑चीः । वसा॑नः । आ । व॒री॒व॒र्त्ति॒ । भुव॑नेषु । अ॒न्तः ।