परि॒ द्यावा॑पृथि॒वी स॒द्य इ॒त्वा परि॑ लो॒कान् परि॒ दिश॒: परि॒ स्व॒: । ऋ॒तस्य॒ तन्तुं॒ वित॑तं वि॒चृत्य॒ तद॑पश्य॒त्तद॑भव॒त्तदा॑सीत्
pári dyā́vā-pṛthivī́ sadyá ítvā pári lokā́n pári díśaḥ pári svàḥ | ṛtásya tántuṃ vítataṃ vicṛ́tya tád apaśyat tád abhavat tád āsīt
Having straightway encompassed heaven and earth, having encompassed the worlds, the quarters, and the heaven, having traced out the thread of Ṛta, stretched forth,—that he beheld; that he became; that verily it was.
परि । द्यावा-पृथिवी । सद्यः । इत्वा । परि । लोकान् । परि । दिशः । परि । स्वः । ऋतस्य । तन्तुम् । विततम् । विचृत्य । तत् । अपश्यत् । तत् । अभवत् । तत् । आसीत्