
Gokarṇeśvara–Jaleśvara-māhātmya-varṇanam
Sacred-Geography (Tīrtha-māhātmya) and Ritual-Manual (snāna–dāna–arcana prescriptions)
ヴァラーハ(Varāha)と大地女神プリティヴィー(Pṛthivī)の教示という枠組みの中で、本章はŚleṣmātakaの森におけるゴーカルネーシュヴァラとジャレーシュヴァラ(シャイレーシュヴァラ)の聖地功徳(tīrtha-māhātmya)を説く。インドラ(Śakra)と諸神は諸世界を巡ってシャンカラを探すが見出せず、ついにŚleṣmātakaへ赴く。そこでウマーに会い、さらに角を持つ鹿のような不思議な存在に遭遇する。インドラ・ブラフマー・ヴィシュヌがその角を掴んで分けると、存在は彼らを戒め、衆生利益(loka-anugraha)のためにその角(聖標)を建立せよと命じる。続いてヴァーグマティー川と合流点・泉を中心とする聖なる地勢が示され、沐浴(snāna)、礼拝供養(arcana)、灯明供、祖霊供養(śrāddha)、および行いの規範が細かく規定される。これらの実践は罪垢を除き社会秩序を安定させ、清浄な水と聖林の保護、規律ある巡礼を通じて大地を守る道を示すとされる。
Verse 1
अथ गोकरणेश्वरजलेश्वरमाहात्म्यवर्णनम्॥ ब्रह्मोवाच॥ ततः शक्रः सुरगणैः सह सर्वैः समेत्य च॥ बुद्धिं चकार गमने मार्गितुं यत्र शङ्करः॥
ここに、ゴーカルネーシュヴァラとジャレーシュヴァラの偉大さの叙述。ブラフマーは言った。ついでシャクラ(インドラ)は、すべての神々の群れとともに集い、シャンカラの在す場所を求めて出立しようと決意した。
Verse 2
तत उत्थाय ते देवाः सर्व एव शिलोच्चयात्॥ विहायसा ययुः शीघ्रं तेनैव सह नन्दिना॥
それからその神々は皆、山頂から立ち上がり、ただちに虚空を駆けて進み、かのナンディンとともに行った。
Verse 3
स्वर्लोकं ब्रह्मलोकं च नागलोकं च सर्वशः ॥ बभ्रमुस्त्रिदशाः सर्वे रुद्रान्वेषणतत्पराः ॥
彼らはあらゆる所をさまよった——スヴァルガ・ローカ、ブラフマー・ローカ、そしてナーガ・ローカを遍く——すべての神々はルドラを捜し求めることに専心していた。
Verse 4
खिन्नाः क्लिष्टाश्च सुभृशं न पुनस्तत्पदं विदुः ॥ चतुःसमुद्रपर्यन्तसप्तद्वीपवतीं महीम् ॥
疲れ果て、ひどく苦しめられながらも、なおその場所を知り得なかった。(彼らは)四つの大海に囲まれ、七つの大陸を有する大地を(捜し巡った)。
Verse 5
सशैलकाननोपेतां मार्गयद्भिर्हि तं सुरम् ॥ कन्दरेषु महाद्रीणां तुङ्गेषु शिखरेषु च ॥
まことに、その神格を求めて、彼らは山々と森を備えた大地を巡り——大山の洞窟をくぐり、また高き峰々の頂に至った。
Verse 6
विततेषु निकुञ्जेषु विहारेषु च सर्वतः ॥ विचिन्वद्भिः क्षितिमिमां तृणं द्विविदलीकृतम् ॥
広がる林苑や遊楽の園をあまねく巡り、この大地を探り尽くすうちに、草さえも二つに裂かれた——まるで万物が徹底して梳かれたかのように。
Verse 7
न प्रवृत्तिः क्वचिदपि शम्भोरासाद्यते सुरैः ॥ यदा निर्विण्णमनसो मार्गमाणाः सुरास्तदा ॥
神々はどこにもシャンブ(Śambhu)の痕跡を得られなかった。かくして、心に倦みを覚えた神々がなお捜し続けていたその時——
Verse 8
न पश्यन्ति शिवं तत्र तदेषां भयमाविशत् ॥ भीतास्ते संविदं कृत्वा सञ्चिन्त्य गुरुलाघवम् ॥
彼らはそこにシヴァを見いだせず、恐れが胸に入り込んだ。怯えた彼らは互いに盟約を結び、重きと軽き――利と害――を熟慮した。
Verse 9
सम्भूयान्योऽन्यममराः मामेव शरणं ययुः ॥ तमेकाग्रेण मनसा शङ्करं लोकशङ्करम् ॥
不死の神々は集い、ただ我のみを拠り所として来た。彼らは一念に心を定め、世を安んずる者シャンカラを求めた。
Verse 10
सर्वं त्रैलोक्यमस्माभिर्विचितं वै निरन्तरम् । श्लेष्मातकवनोद्देशं स्थानं मुक्त्वा महीतले ॥
我らは絶え間なく三界すべてを探し尽くした。ただ地上の一処のみを除いて――それはシュレーシュマータカの森の一帯である。
Verse 11
आगच्छध्वं गमिष्यामस्तमुद्देशं सुरोत्तमाः ॥ इत्येवमुक्त्वा तैः सर्वैस्तामाशां प्रस्थिताः वयम् ॥
「来たれ。我らはその地へ赴こう、神々の中の最勝者たちよ。」そう告げて、我らは彼らすべてと共にその方角へ出立した。
Verse 12
तत्क्षणादेव सम्प्राप्ता विमानैः शीघ्रयायिभिः ॥ श्लेष्मातकवनं पुण्यं सिद्धचारणसेवितम् ॥
その瞬間、疾走するヴィマーナにより、シッダとチャーラナが常に訪れ仕える聖なるシュレーシュマータカの森へと到着した。
Verse 13
तस्मिन्सुरमणीयानि विविधानि शुचीनि च ॥ ध्यानस्थानानि रम्याणि बहूनि गुणवन्ति च
そこには、種々にして清浄なる、きわめて美しい場所が数多くあり、また優れた徳に満ちた、瞑想にふさわしい麗しい聖地も多くあった。
Verse 14
आश्रमारण्यभागेषु दरीणां विवरेषु च ॥ विभ्राजद्वनराजाकी नद्यश्च विमलोदकाः
アーシュラマと森の地において、また山の洞窟の裂け目においても、清らかで澄んだ水をたたえた川々が輝き現れていた。
Verse 15
सिंहशार्दूलमहिषगोलाङ्गूलर्क्षवानरैः ॥ नादितं गजयूथैश्च मृगयूथैश्च तद्वनम्
その森は、獅子・虎・水牛・猿・熊・類人猿の声に満ち、さらに象の群れと鹿の群れの響きによっても鳴り渡っていた。
Verse 16
प्रमुखे वासवं कृत्वा विविशुस्ते सुरास्तदा ॥ विमुच्य रथयानानि पद्भिः सिद्धादिसङ्कटम्
そのとき彼ら神々は、ヴァーサヴァ(インドラ)を先頭として入り、車乗りを捨てて、シッダたちなどで混み合う地を徒歩で進んだ。
Verse 17
कन्दरोदरकूटेषु तरूणां गहनेषु च ॥ सर्वदेवमयं रुद्रं मार्गमाणाः शनैः शनैः
洞窟の奥と峰、また樹々の深い茂みの中で、彼らはゆるやかに一歩一歩、万神を体現するルドラを求めて探し続けた。
Verse 18
प्रविशन्तश्च ते देवा वनॊद्देशं क्वचिच्छुभे ॥ कदलीवनसञ्च्छन्ने फुल्लपादपशोभिते
かの神々が進みゆくとき、彼らは吉祥なる森の一隅に入った。そこは芭蕉の林に覆われ、花咲く樹々により飾られていた。
Verse 19
मुक्ताचूर्णनिकाशाभिर्वालुकाभिस्ततस्ततः ॥ विक्रीडमानां ददृशुः कन्यां काश्चिन्मनोरमाम्
あちらこちらに、真珠の粉のような砂の中で、彼らは一人の愛らしい乙女が戯れ遊ぶのを見た。
Verse 20
तत्र ते विबुधा दृष्ट्वा सर्वे मां समचोदयन् ॥ आद्योऽहं सर्वदेवानां कथमेतद्भवेदिति
そこで彼女を見て、賢き者たちは皆、私に説明を促して言った。「我は諸神の最上位なる者、いかにしてこのようなことがあり得ようか。」
Verse 21
मुहूर्त्तं ध्यानमास्थाय विज्ञाता सा मया तदा ॥ ध्रुवं शैलेन्द्रपुत्रीयमुमाविश्वेश्वरेश्वरि
しばし瞑想に入り、私はその時彼女を識った。まことに彼女は、山の主の娘ウマー、宇宙の主ヴィシュヴェーシュヴァラに対しても主権を有する至上の女神であった。
Verse 22
ततस्तदुच्छशिखरमारुह्य विबुधेश्वराः ॥ अधो विलोक्य ते सर्वे ददृशुस्तं सुरोत्तमम्
それから神々の主たちはその高き峰に登り、下を見おろして、皆が諸神の中の最勝者を見た。
Verse 23
मध्ये मृगसमूहस्य गोप्तारमिव संस्थितम् ॥ एकशृङ्गैकचरणं तप्तहाटकवर्चसम् ॥
鹿の群れのただ中に、まるでその守護者であるかのように立ち、一角一脚の生きものが現れた。その身は灼けた黄金の鎧のごとく輝いていた。
Verse 24
चारुवक्त्राक्षिदशनं पृष्ठतः शुक्लबिन्दुभिः ॥ शुक्लेनोदरभागेन राजतैरुपशोभितम् ॥
その顔立ちと眼と歯は麗しく、背には白い斑点があり、腹のあたりは白く銀のように輝いて、見事に飾られていた。
Verse 25
पीनोन्नतकटीस्कन्धं निमग्नांसशिरोधरम् ॥ बिम्बोष्ठं ताम्रजिह्वास्यं दंष्ट्राङ्कुरविराजितम् ॥
腰と肩は豊かに盛り上がり、首と頭は肩の間に沈むように見えた。唇はビンバの実のごとく、舌は銅色で、芽生えつつある牙が光を放っていた。
Verse 26
तं दृष्ट्वा विबुधाः सर्वे शिखरात्प्रतिधाविताः ॥ सर्वोद्यामेन तरसा तं मृगेन्द्रजिघृक्षवः ॥
それを見て、諸天は皆、峰から駆け下りた。力の限りを尽くし、猛烈な速さで、その威ある獣王を捕らえようとした。
Verse 27
शृङ्गाग्रं प्रथमं धृत्वा गृहीत्वा वज्रपाणिना ॥ मध्यं मया तस्य तदा गृहीतं प्रणतात्मना ॥
まず金剛を執る者(ヴァジュラパーニ)が角の先端を掴み、ついで私は恭敬して身を低くし、その中ほどをその時に掴んだ。
Verse 28
शक्रस्याग्रं स्थितं हस्ते मध्यं हस्ते मम स्थितम् ॥ विष्णोर्मूलं स्थितं हस्ते प्रविभक्तं त्रिधागतम् ॥
先端はシャクラの手にとどまり、中ほどは我が手にとどまり、根元はヴィシュヌの手にとどまった—かくしてそれは分かたれ、三つの部分となった。
Verse 29
शृङ्गस्यैव गृहीतस्य त्रिधास्माकं मृगाधिपः ॥ विषाणरहितस्तस्य प्रणष्टः पुनरत्र वै ॥
我らが掴んだのは角のみで、それが三つに分かれたが、獣の主は—角を失い—再びこの場から姿を消した。
Verse 30
अन्तर्हितोऽन्तरिक्षस्थः प्रोवाचास्मानुपालभन् ॥ भो भो देवा मया यूयं वच्यमानानवाप्स्यथ ॥
姿を隠し、空中にとどまりつつ、それは我らを叱責して言った。「おお、おお、神々よ。我が告げるところを、汝らは(そのままでは)得ることはできぬ。」
Verse 31
सशरीरोऽहं युष्माभिर्वशाप्तः प्रगतस्त्वितः ॥ शृङ्गमात्रेण सन्तुष्टा भवन्तस्तेन वञ्चिताः ॥
「我はこの身のまま汝らの支配を逃れ、ここを去った。汝らは角だけで満足し、そのゆえに欺かれたのだ。」
Verse 32
यद्यहं सशरीरः स्यां गृहीत्वा स्थापितोऽभवम् ॥ तदा चतुष्पात्सकलो धर्मः स्यात्प्रतिपादितः ॥
「もし我が身ごと捕らえられ、所定の場に据えられていたなら、四つの足に立つ全きダルマは確立されていたであろう。」
Verse 33
कामं शृङ्गाणि मेऽत्रैव श्लेष्मात्मकवनेऽमराः ॥ न्यायतः स्थापयिष्यध्वं लोकानुग्रहकाम्यया ॥
「我が角はまさにここ、Śleṣmātmanの森に留まれ。おお不死なる者たちよ、正しい次第に従ってそれらを安置し、世を利益せんとの願いをもって行え。」
Verse 34
अत्रापि महती व्युष्टिर्भविष्यति न संशयः ॥ पुण्यक्षेत्रे सुमहति मत्प्रभावानुभाविते ॥
「ここにおいても大いなる繁栄が起こるであろう—疑いなし—我が威力の体験によって輝きを得た、このきわめて大いなる聖なるクシェートラにおいて。」
Verse 35
यावन्ति भुवि तीर्थानि ह्यासमुद्रसरांसि च ॥ क्षेत्रेऽस्मिंस्तानि तीर्थानि चागमिष्यन्ति मत्कृते ॥
「地上にあるすべてのティールタ(聖なる渡し場)—海に至るまでの湖と水域をも含め—それらのティールタは我がためにこのクシェートラへと来集するであろう。」
Verse 36
अहं पुनः शैलपतेः पादे हिमवतः शुभे ॥ नेपालाख्ये समुत्पत्स्ये स्वयमेव महीतलात् ॥
「そして我は再び、自らのままに大地の面より現れ出で、山々の主ヒマヴァトの吉祥なる麓、ネパーラと呼ばれる地に至るであろう。」
Verse 37
तत्र नागह्रदे घोरे स्थास्याम्यन्तर्जले ह्यहम् ॥ त्रिंशद्वर्षसहस्राणि सर्वभूतहिते रतः ॥
「そこにて、恐るべきナーガの湖において、我はまことに水中に留まり、三万年のあいだ、あらゆる生きとし生けるものの利益に専心する。」
Verse 38
यदा वृष्णिकुलोत्पन्नः कृष्णचक्रेण पर्वतान् ॥ पाटयित्वेन्द्रवचनाद्दानवान्निहनिष्यति ॥
ヴリシュニ族に生まれた者が、クリシュナの円盤(チャクラ)によって山々を裂き、インドラの命によりダーナヴァたちを討ち滅ぼすとき。
Verse 39
तदा स देशो भविता सर्वम्लेच्छैरधिष्ठितः ॥ ततोऽन्ये सूर्यवंशीया क्षत्रियास्तान्निहत्य च ॥
そのとき、その国土はすべてムレッチャに占拠される。ついで、スーリヤवंシャのほかのクシャトリヤたちが彼らを討ち滅ぼす。
Verse 40
ततो जनपदस्तत्र भविष्यति महांस्तदा ॥ स्फीतो ब्राह्मणभूयिष्ठसर्ववर्णाश्रमैर्युतः ॥
それからそこに、大いなるジャナパダが生じ、繁栄し、バラモンが多く、あらゆるヴァルナとアーシュラマを備える。
Verse 41
वसिष्यन्ति च तं देशं ब्राह्मणैः संप्रवर्त्तितान् ॥ धर्मान्संस्थापयिष्यन्ति राज्यं प्राप्स्यन्ति शाश्वतम् ॥
そして彼らは、バラモンによって起こされた行法に導かれてその国土に住み、ダルマを確立し、永続する統治を得る。
Verse 42
ततो लिङ्गार्च्चनं तत्र प्रतिष्ठास्यन्ति पार्थिवाः ॥ क्षत्रियाः सूर्यवंशीया शून्ये लप्स्यन्ति मां नृपाः ॥
その後、王たちはそこでリンガの礼拝を स्थापितする。日族(スーリヤवंシャ)のクシャトリヤの王たちは、その地が無人のとき、我(すなわち我が臨在と恩寵)を得る。
Verse 43
सम्यक्प्रवृत्ता राजानो भविष्यन्त्यायतौ स्थिताः ॥ एवं सम्यक्स्थिते तस्मिन्देशे पौरजने तथा
王たちがよく整った仕方で行い、正しい行法に堅く住し、またその国土と町の民衆も同様に正しい秩序に確立されているとき——
Verse 44
तत्र मामर्च्छयिष्यंति सर्वभूतानि सर्वदा ॥ तत्राहं यैः सकृद्दृष्टो विधिवद्वंदितस्तु यैः
そこでは、あらゆる生きとし生けるものが常に我を礼拝する。またそこでは、たとえ一度でも我を見た者、そして正しい作法により我に礼拝した者は——
Verse 45
गत्वा शिवपुरं ते मां द्रक्ष्यंते दग्धकिल्बिषाः ॥ उत्तरेण तु गङ्गाया दक्षिणे चाश्विनीमुखात्
シヴァプラ(Śivapura)へ赴けば、彼らは我を拝し、罪障は焼き尽くされる。それはガンガー(Gaṅgā)の北、アシュヴィニー・ムカ(Aśvinī-mukha)の南にある——
Verse 46
भागीरथ्याः शतगुणं पवित्रं तज्जलं स्मृतम् ॥ तत्र स्नात्वा हरेर्लोकानुपस्पृश्य दिवसपतेः
その水は、バーギーラティー(Bhāgīrathī)より百倍も清めると伝えられる。そこで沐浴し、定められた触水の作法を行えば、ハリ(Hari)の世界と昼の主(太陽)の世界に至る——
Verse 47
मुक्त्वा देहं नरा यांति मम लोकं न संशयः ॥ अपि दुष्कृतकर्माणः क्षेत्रेऽस्मिन्निवसन्ति ये
身を捨て去るとき、人々は我が世界へ赴く。これに疑いはない。たとえ悪しき業をなした者であっても、この聖なるクシェートラに住するなら——
Verse 48
नियतं पुरुहूतस्य श्रिताः स्थाने वसन्ति ते ॥ देवदानवगन्धर्वाः सिद्धविद्याधरोरगाः
彼らはそこに住み、プルフータ(インドラ)の定められた住処に帰依している。デーヴァ、ダーナヴァ、ガンダルヴァ、シッダ、ヴィディヤーダラ、ナーガたち—
Verse 49
मुनयोऽप्सरसो यक्षाः मोहिताः मम मायया ॥ तद्वै गुह्यं न जानंति यत्र सन्निहितो ह्यहम्
ムニたち、アプサラス、ヤクシャは—わがマーヤーに惑わされ—その秘奥を知らない。すなわち、わたしがまことに臨在する場所を。
Verse 50
तपस्तपोधनानां च सिद्धक्षेत्रं हि तत्कृतम् ॥ प्रभासाच्च प्रयागाच्च नैमिषात्पुष्करादपि
苦行者とタパスに富む者のために、ここはまさしくシッダ・クシェートラ(成就の聖域)として設けられた。プラバーサ、プラヤーガ、ナイミシャ、さらにはプシュカラにも勝って—
Verse 51
कुरुक्षेत्रादपि बुधाः क्षेत्रमेतद्विशिष्यते ॥ श्वशुरो मे स्थितो यत्र हिमवान् भूधरेश्वरः
クルクシェートラにも勝って、この聖域は殊勝と見なされる、賢者たちよ。そこには山々の主ヒマヴァーン—わが岳父—が鎮まっているからである—
Verse 52
प्रभवन्ति यतः सर्वा गङ्गाद्याः सरितां वराः ॥ तस्मिन्क्षेत्रवरे पुण्ये पुण्याः सर्वाः सरिद्वराः
そこからガンガーをはじめとする、あらゆる優れた河川が生じる。その最上にして清浄なる聖域において、すべての勝れた河川はことごとく聖なるものとなる。
Verse 53
सर्वे प्रस्रवणाः पुण्याः सर्वे पुण्याः शिलोच्चयाः ॥ आश्रमस्तत्र भविता सिद्धचारणसेवितः
そこにあるすべての泉は功徳に満ち、すべての岩峰もまた功徳に満ちている。そこにはアーシュラマ(āśrama)が設けられ、シッダ(Siddha)とチャーラナ(Cāraṇa)により常に訪れ仕えられる。
Verse 54
शैलेश्वर इति ख्यातः शरीरं यत्र मे स्थितम् ॥ स्रवन्तीनां वरा पुण्या वाग्मती पर्वतोत्तमात्
そこは、わが身が安置されるゆえに「シャイレーシュヴァラ(Śaileśvara)」として知られる。諸河のうちでは、吉祥なるヴァーグマティー(Vāgmatī)が最上であり、すぐれた山より流れ出る。
Verse 55
पानावगाहनात्तस्यास्तारयेत्सप्त वै कुलान् ॥ लोकपालस्तु चरति तीर्थख्यातिं च तत्स्वयम्
その水を飲み、またその川に身を浸すことによって、七代の一族を救済すると説かれる。ローカパーラ(Lokapāla)自らがそこを巡り、その地は自ずからティールタ(tīrtha)として名声を得る。
Verse 56
तत्र स्नात्वा दिवं यान्ति मृतास्ते त्वपुनर्भवाः ॥ स्नात्वा स्नात्वा तु ये तत्र नित्यमभ्यर्चयन्ति माम्
そこで沐浴した者は、亡き者も天界へ赴き、再び生まれ戻らないと説かれる。また、そこで幾度も沐浴し、常にわたしを礼拝する者たちは—
Verse 57
उद्धराम्यहमेतान्वै प्रीतः संसारसागरात् ॥ यस्तस्य वारिणा पूर्णमेकं च घटमुद्धरेत्
わたしは喜びをもって、彼らをサンサーラ(saṁsāra)の大海から引き上げる。その水を満たした壺を、たとえ一つでも汲み上げる者は—
Verse 58
स्नापनार्थे मम शुचिः श्रद्धधानोऽनसूयकः ॥ वेदवेदाङ्गविदुषा श्रोत्रियेण विशेषतः
我に捧げる沐浴(供養)のためには、清浄で、信心深く、悪意なき者であるべきである。とりわけ、ヴェーダとその補助学(ヴェーダーンガ)に通じたシュロートリヤ(śrotriya)がこれを行うべきである。
Verse 59
आहृतस्याग्निहोत्रस्य यत्फलं तस्य तद्भवेत् ॥ तस्यास्तीरे जलोद्भेदं मन्मूलादभिनिःसृतम्
正しく成就されたアグニホートラ(Agnihotra)に属するいかなる果報も、この行為から同じ果報として現れる。その岸辺には水の湧出があり、我が根源そのものから流れ出る。
Verse 60
मृगशृङ्गोदकं नाम नित्यं मुनिजनप्रियम् ॥ तत्राभिषेकं कुर्वीत उपस्पृश्य समाहितः
それはムリガシュリンゴーダカ(Mṛgaśṛṅgodaka)と呼ばれ、常にムニたちの群れに愛される。そこで、ウパスプリシャ(upaspṛśya:水による浄めの触れ)を行ったのち、心を統一してアビシェーカ(abhiṣeka)の灌頂沐浴をなすべきである。
Verse 61
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥ तीर्थं पञ्चनदं प्राप्य पुण्यं ब्रह्मर्षिसेवितम्
生涯に犯した罪は、その瞬間にただちに滅する。ティールタ(tīrtha)と呼ばれるパンチャナダ(Pañcanada)に至れば、それは功徳に満ち、ブラフマリシ(Brahmarṣi)たちに奉仕され訪れられる聖地であり—
Verse 62
अग्निष्टोमफलं तत्र स्नातमात्रः प्रपद्यते ॥ षष्टिं धेनुसहस्राणि यानि रक्षन्ति वाग्मतीम्
そこでは、ただ沐浴するだけでアグニシュトーマ(Agniṣṭoma)祭の果報に到達する。六万の牝牛—ヴァーグマティー(Vāgmatī)を守護するものたち—
Verse 63
न तां पापाः कृतघ्नो वा कदाचित्प्राप्नुयान्नरः॥ शुचयः श्रद्धधानाश्च सत्यसंधाश्च ये नराः॥
罪ある者、あるいは恩知らずの者は、決してその功徳を得てはならない。だが清浄で、信を具え、真実に堅固な人々こそ、それにふさわしい。
Verse 64
वाग्मत्याः सलिले स्नात्वा ये मां पश्यन्ति संस्कृताः॥ तेषां शान्तिर्भवेन्नित्यं पुरुषाणां न संशयः॥
ヴァーグマティー(Vāgmatī)の水に沐浴し、正しく身を整えて私を拝する者は、常住の安寧を得る。かかる人々について疑いはない。
Verse 65
मत्प्रभावात्तु स्नातस्य सर्वं नश्यति किल्बिषम्॥ ईतयः समुदीर्णाश्च प्रशमं यान्ति सर्वशः॥
しかし我が威力によって、沐浴した者の一切の罪障は滅し、起こった諸々の苦患もことごとく鎮まり、遍く静安へと帰する。
Verse 66
तत्र तत्र फलं दद्याद्राजसूयाश्वमेधयोः॥ योजनाभ्यन्तरं क्षेत्रं समन्तात्सर्वतोदिशम्॥
その地では、ラージャスーヤ(Rājasūya)とアシュヴァメーダ(Aśvamedha)の祭祀の果報が授けられる。聖域は四方すべてに一ヨージャナ(yojana)にわたり周遍する。
Verse 67
मूलक्षेत्रं तु विज्ञेयं रुद्रेणाधिष्ठितं स्वयम्॥ तत्र पूर्वोत्तरे पार्श्वे वासुकिर्नाम नागराट्॥
根本の聖域は、ルドラ(Rudra)自らが主宰していると知れ。そこ、北東の側には、ヴァースキ(Vāsuki)という名のナーガ王がいる。
Verse 68
वृतो नागसहस्रैस्तु द्वारि तिष्ठति मे सदा॥ स विघ्नं कुरुते नृणां तत्क्षेत्रं विशतां सदा॥
幾千のナーガに囲まれて、彼は常に我が門に立つ。あの聖域へ入ろうとする人々に、彼は絶えず障碍を起こす。
Verse 69
प्रथमं स नमस्कार्यस्ततोऽहं तदनन्तरम्॥ अनेन विधिना पुंसामविघ्नं विशतां भवेत्॥
まず彼に礼拝し、その後に我を礼拝すべきである。この作法によって、入る者は障りなく入ることができる。
Verse 70
वन्दते परया भक्त्या यो मां तत्र नरः सदा॥ पृथिव्यां स भवेद्राजा सर्वलोकनमस्कृतः॥
そこで常に至上の信愛をもって我を礼拝する者は、地上において王となり、あらゆる人々に敬われる。
Verse 71
गन्धैर्माल्यैश्च मे मूर्त्तिमभ्यर्च्चयति यो नरः॥ उत्पत्स्यते स देवेṣu तुषितेषु न संशयः॥
香と花鬘をもって我が御像を供養する者は、疑いなく満ち足りた神々たる兜率天(トゥシタ)の衆の中に再生する。
Verse 72
गीतवादित्रनृत्यैस्तु स्तुतिभिर्जागरेण वा॥ ये मे कुर्वन्ति सेवां वै मत्संस्थास्ते भवन्ति हि॥
歌、器楽、舞、讃歌、あるいは徹夜の守りによって我に奉仕する者たちは、まことに我が御前に安住する。
Verse 73
दध्ना क्षीरेण मधुना सर्पिषा सलिलेन वा ॥ स्नापनं ये प्रयच्छन्ति ते तरन्ति जरान्तकौ ॥
凝乳・乳・蜜・ギー、あるいは水によっても儀礼の沐浴(スナーパナ)を施し供養する者は、老いと死を超えて渡ると説かれる。
Verse 74
यः श्राद्धे भोजनं दद्याद्विप्रेभ्यः श्रद्धयान्वितः ॥ सोऽमृताशी भवेनूनं त्रिदिवे सुरपूजितः ॥
シュラーダの儀において、真実の信をもってブラーフマナたちに食を施す者は、まことに不死の糧に与り、天界にて神々に尊ばれる。
Verse 75
व्रतोपवासैर्होमैर्वा नैवेद्यैश्चारुभिस्तथा ॥ यजन्ते ब्राह्मणा ये मां परया श्रद्धयान्विताः ॥
至上の信を具して我を礼拝するブラーフマナたちは、誓戒と断食、火供(ホーマ)、さらに供物の食(ナイヴェーディヤ)や調理した供献によって、これらの修行をもって礼拝を成就する。
Verse 76
षष्टिवर्षसहस्राणि चोषित्वा दिवि ते ततः ॥ ऐश्वर्यं प्रतिपद्यन्ते मर्त्यलोके पुनः पुनः ॥
天界に六万年住したのち、彼らはその後、人間界においても繰り返し繁栄を得る。
Verse 77
ब्राह्मणः क्षत्रियो वैश्यः शूद्रः स्त्री वापि सङ्गताः ॥ शैलेश्वरं तु तत्स्थानं भक्तितः समुपासते ॥
ブラーフマナ、クシャトリヤ、ヴァイシャ、シュードラ、そして女性たちも—共に集い—信愛をもってシャイレーシュヴァラとその聖なる住処を礼拝する。
Verse 78
मत्पार्षदास्ते जायन्ते सततं सहिताः सुरैः ॥ शैलेश्वरं परं गुह्यं गतिः शैलेश्वरः परा ॥ शैलेश्वरात्परं क्षेत्रं न क्वचिद्भुवि विद्यते ॥
彼らは常に、神々とともに、わが従者として生まれ出る。シャイレーシュヴァラは至上の秘奥であり、シャイレーシュヴァラこそ最高の到達処である。地上のいかなる聖域もシャイレーシュヴァラに勝るものはない。
Verse 79
ब्रह्महा गुरुहा गोग्नः स्पृष्टो वै सर्वपातकैः ॥ क्षेत्रमेतदनुप्राप्य निर्मलो जायते नरः ॥
たとえバラモン殺し、師殺し、牛殺し、あるいはあらゆる重罪に触れた者であっても、この聖なる地に至れば、人は清浄となる。
Verse 80
विविधान्यत्र तीर्थानि सन्ति पुण्यानि देवताः ॥ येषान्तोयैर्नरः स्पृष्टः सर्वपापैः प्रमुच्यते ॥
ここにはさまざまなティールタ(聖なる渡し場)と吉祥なる神々がある。その水に触れられる者、すなわち儀礼の沐浴を受ける者は、あらゆる罪から解き放たれる。
Verse 81
तत्र स्नात्वा शुचिर्दान्तः सत्यसन्धो जितेन्द्रियः ॥ विमुक्तः किल्बिषैः सर्वैः सर्वमेव फलं लभेत् ॥
そこで沐浴し、清浄にして自制し、真実に誓い、諸感官を制した者は、あらゆる過失から解き放たれて、儀礼の果報を余すところなく得る。
Verse 82
अनाशकं व्रजेद्यस्तु दक्षिणेन महात्मनः ॥ शैलेश्वरस्य पुरुषः स गच्छेत्परमां गतिम् ॥
しかし、大いなるシャイレーシュヴァラの南にあるアナーシャカへ赴く者は、最高の境地に到達する。
Verse 83
भृगुप्रपतनं कृत्वा कामक्रोधविवर्जितः॥ विमानॆन दिवं गच्छेद्धृतः सोऽप्सरसाङ्गनैः॥
「ブリグの降下(プラパタナ)」と呼ばれる行を修し、欲と怒りを離れた者は、天のヴィマーナに乗って天界へ赴き、アプサラスの群れに伴われる。
Verse 84
भृगुमूले परं तीर्थं ब्रह्मणा निर्मितं स्वयम्॥ ब्रह्मोद्भेदेति विख्यातं तस्यापि शृणु यत्फलम्॥
ブリグの根元には、ブラフマー自らが造った最上のティールタがあり、「ブラフモードベーダ」として名高い。その聖地の果報(功徳)もまた聞きなさい。
Verse 85
संवत्सरं तु यस्तत्र स्नास्यंस्तु नियतेन्द्रियः॥ स ब्रह्मलोके विरजे गच्छेन्नास्त्यत्र संशयः॥
しかし、感官を制しつつそこで一年のあいだ沐浴する者は、穢れなきブラフマー界(ブラフマローカ)へ赴く。ここに疑いはない。
Verse 86
तत्र गोरक्षकं नाम गोवृषः पदविक्षतम्॥ दृष्ट्वा च तानि हि पुमान् गोसहस्रफलं लभेत्॥
そこにはゴーラクシャカという名の牡牛がいて、その蹄の跡が見える。それらの印を目にする者は、千頭の牛を施すのに等しい功徳を得る。
Verse 87
गौर्यास्तु शिखरं तत्र गच्छेत्सिद्धनिषेवितम्॥ यत्र सन्निहिता नित्यं पार्वती शिखरप्रिया॥
また、成就者(シッダ)たちが親しむガウリーの峰へ赴くべきである。山頂を愛するパールヴァティーが、そこに常に臨在すると説かれる。
Verse 88
लोकमाता भगवती लोकरक्षार्थमुद्यता॥ तस्याः सालोक्यमायाति दृष्ट्वा स्पृष्ट्वाभिवाद्य च॥
彼女――世を護らんとする尊き「世界の母」なる女神。これを見、触れ、恭しく礼拝する者は、サーローキヤ(sālokya)、すなわち彼女の界に住する果を得る。
Verse 89
त्यजते पतितुं तस्या अधस्ताद्वाग्मतीतटे॥ उमालोकं व्रजेदाशु विमानॆन विहायसा॥
その下、ヴァーグマティー(Vāgmatī)の岸においては、災厄へと堕ちる性向を捨て去る。かくして人は、天翔るヴィマーナに乗り、速やかにウマー(Umā)の世界へ赴く。
Verse 90
तीर्थं पञ्चनदं प्राप्य पुण्यं ब्रह्मर्षिसेवितम्॥ अग्निहोत्रफलं तत्र स्नानमात्रेण लभ्यते॥
「パンチャナダ」(Pañcanada)と名づく聖なるティールタ――清浄にしてブラフマリシ(brahmarṣi)の奉仕・来訪を受ける地――に至れば、ただ沐浴するのみでアグニホートラ(Agnihotra)の果報を得る。
Verse 91
नकुलोहेन मतिमान्स्नापयेत्प्रयतात्मवान्॥ जातिस्मरः स तु भवेत्सिध्यते चास्य मानसम्॥
賢明にして自制ある者は、そこで「ナクラーハ」(nakulāha)と呼ばれる水にて沐浴すべし。しかるとき彼は宿世を憶う者となり、その心の願いは成就する。
Verse 92
तस्यैवोत्तरत्तस्तीर्थमपरं सिद्धसेवितम्॥ नाम्ना प्रान्तकपानीयं गुह्यं गुह्यकरक्षितम्॥
そのさらに北には、シッダ(siddha)らの来集する別のティールタがある。名を「プラーンタカ・パーニーヤ」(Prāntaka-pānīya)といい、秘され、グヒヤカ(Guhyaka)によって護られている。
Verse 93
संवत्सरं यस्तु पूर्णं तत्र स्नायान्नरः सदा ॥ गुह्यकः स भवेदाशु रुद्रस्यानुचरः सुधीः ॥
そこで一年のあいだ絶えず沐浴する者は、たちまちグヒヤカ(Guhyaka)となり、ルドラの随伴する賢き従者となる。
Verse 94
देव्याः शिखरवासिन्या ज्ञेयं पूर्वोत्तरेण वै ॥ दक्षिणेन तु वाग्मत्याः प्रसृतं कन्दरॊदरात् ॥
北東には、峰に住まう女神に属すると知られる地があり、南にはヴァーグマティー(Vāgmatī)が洞窟の奥より湧き出て流れ出す。
Verse 95
तीर्थं ब्रह्मोदयम् नाम पुण्यं पापप्रणाशनम् ॥ तत्र गत्वा जलं स्पृष्ट्वा स्नात्वा चाभ्युक्श्य मानवः ॥
「ブラフモーダヤ」(Brahmodaya)と名づけられた聖なる渡り場があり、吉祥にして罪を滅する。そこへ赴き、水に触れ、沐浴し、さらにその水を身に灌ぎかければ—
Verse 96
मृत्युलोकं न पश्येत्स कृच्छ्रेषु च न सीदति ॥ गत्वा सुन्दरिकातीर्थं विधिना तीर्थमादिमम् ॥
—彼は死の世界を見ることなく、苦難の時にも沈み込まない—しかるべき作法により、原初の聖なる渡り場スンダリカー・ティールタ(Sundarikā-tīrtha)へ赴くならば。
Verse 97
तत्र स्नात्वा भवेत् तोये रूपवानुत्तमद्युतिः ॥ त्रिसन्ध्यं तत्र गच्छेत् तु पूर्वेण विधिवन्नरः ॥
そこで水に沐浴すれば、容姿は麗しく、最上の光輝を得る。人は三度のサンディヤー(sandhyā)の時に、東の道を通って、法にかなって赴くべきである。
Verse 98
तत्र सन्ध्यामुपास्याथ द्विजो मुच्येत किल्विषात् ॥ वाग्मत्या मणिवत्याश्च सम्भेदे पापनाशने ॥
そこでサンディヤー(sandhyā)の礼拝を修したなら、再生者(dvija)は罪過から解き放たれる。これは罪を滅する浄化の合流、ヴァーグマティーとマニヴァティーの合流点においてである。
Verse 99
तारितं च कुलं तेन सर्वं भवति साधुना ॥ वर्णावरोऽपि यः कश्चित्स्नात्वा दद्यात्तिलोदकम् ॥
その徳ある人によって、家の全系統はことごとく善き境地へ渡されると言われる。たとえ身分の低い者であっても—誰であれ—沐浴して胡麻を添えた水を供えるべきである。
Verse 100
तर्पिताः पितरस्तेन भवेयुर्नात्र संशयः ॥ यत्र यत्र च वाग्मत्यां स्नाति वै मानवोत्तमः ॥
その行いによって祖霊は満足する—これに疑いはない。そして優れた人がヴァーグマティーのいずこで沐浴しようとも、
Verse 101
तिर्यग्योनिं न गच्छेत् तु समृद्धे जायते कुले ॥ वाग्मतीमणिवत्योश्च सम्भेदश्चर्षिसेवितः ॥
彼は畜生の胎(非人の再生)へは赴かず、繁栄する家に生まれる。またヴァーグマティーとマニヴァティーの合流は、リシ(ṛṣi)たちに親しまれ訪れられる。
Verse 102
धीमान्गच्छेत् तु विधिना कामक्रोधविवर्जितः ॥ गङ्गाद्वारे तु यत्प्रोक्तं स्नानपुण्यफलम् महत् ॥
賢者は正しい作法に従って赴き、欲と怒りを離れているべきである。ガンガードヴァーラ(Gaṅgādvāra)において説かれる沐浴の大いなる功徳の果報は—
Verse 103
स्नानस्य तद्दशगुणं भवेदत्र न संशयः ॥ अत्र विद्याधराः सिद्धा गन्धर्वा मुनयः सुराः
ここでは沐浴の果報が十倍となる――疑いはない。ここにはヴィディヤーダラ、シッダ、ガンダルヴァ、牟尼の聖者、そして神々がいる。
Verse 104
स्नानमेतदुपासन्ते यक्षाश्च भुजगैः सह ॥ स्वल्पमप्यत्र यत्किञ्चिद्द्विजेभ्यो दीयते धनम्
ヤクシャたちも、ナーガ(蛇族)とともにこの沐浴を敬い奉る。ここで二度生まれの者(dvija)に施される財は、たとえわずかでも称賛される。
Verse 105
तदक्षयं भवेद्दातुर्दानपुण्यफलं महत् ॥ तस्मात्सर्वप्रयत्नेन करणीयं च देवताः
その施しは施主にとって不滅となり、布施(dāna)の功徳の果は大いなるものとなる。ゆえに、あらゆる努力をもってこれを行うべし、神々よ。
Verse 106
वरिष्ठं क्षेत्रमेतस्मान्नान्यदेव हि विद्यते ॥ तस्मिन् श्लेष्मातकवने पुण्ये त्रिदशसेविते
これに勝る聖地(kṣetra)は他に知られていない。その三十神(デーヴァ)に仕えられ、しばしば訪れられる聖なるシュレーシュマータカの森において――
Verse 107
यत्र यत्र मया देवाश्चरता मृगरूपिणा ॥ आसितं स्वपितं यातं विहृतं वा समन्ततः
いずこであれ、神々よ、わたしが獣の姿で遍歴し、座し、眠り、歩み、あるいは四方に戯れたその場所は――
Verse 108
गोकर्णेश्वर इत्येतत्पृथिव्यां ख्यातिमेष्यति ॥ एवं सन्दिश्य विबुधान्देवदेवः सनातनः
「この地は地上においてゴーカルネーシュヴァラとして名声を得るであろう。」かくして神々に告げ諭したのち、永遠なる神々の神は…
Verse 109
अदृश्य एव विबुधैः प्रययावुत्तरां दिशम्
神々には見えぬ姿となり、彼は北の方角へと去って行った。
Verse 110
उपायमात्रं दृष्टं मे ध्यायंस्तद्वेषभूषणैः ॥ यथा यत्र च सोऽस्माभिर्द्रष्टव्यो वृषभध्वजः
その衣と荘厳を観想しつつ、私はただ一つの方途を見いだした――いかにして、またいずこにおいて、牛を旗印とする御方(シヴァ)を我らが拝見すべきか。
Verse 111
स्तनकुण्डे उमायास्तु यः स्नायात्खलु मानवः ॥ स्कन्दलोकमवाप्नोति भूत्वा वैश्वानरद्युतिः
まことに、ウマーのスタナクンダにて沐浴する人はスカンダの世界に至り、ヴァイシュヴァーナラ(火)のごとく光輝を帯びる。
Verse 112
अहोरात्रं वसेद्यस्तु रुद्रजापो द्विजः शुचिः ॥ स भवेद्वेदविद्विद्वान्यज्वा पार्थिवपूजितः
しかし清浄なる二度生まれの者が、そこに一昼夜住してルドラの誦持に励むなら、ヴェーダを知る賢者となり、祭祀を行う者となって、王たちに敬われる。
Verse 113
तत्र तत्राभवत्सर्वं पुण्यक्षेत्रं च सर्वशः ॥ शृङ्गमेतत्त्रिधाभूतं सम्यक्संश्रूयतां सुराः ॥
ここかしこ、あらゆる所で、その全域は功徳ある聖地となった。この峰は三つに分かれた。正しく聞け、神々よ。
Verse 114
गिरिनद्यास्तु पुलिने हंसकुन्देन्दुसन्निभे ॥ गन्धामोदेन पुष्पाणां वासितं मधुगन्धिमत् ॥
山の川の砂洲にて—白きこと白鳥・クンダ(茉莉)・月のごとく—花々の香りのそよぎに薫り、蜜のように甘い芳香に満ちていた。
Verse 115
जग्राह केशवश्चापि मूलं तस्य महात्मनः ॥ त्रिभिरेवं गृहीतं तु त्रिधा भूतमभज्यत ॥
ケーシャヴァもまた、その大いなる者の根を取った。かくして三つに取られると、それは三分してしまった。
Verse 116
दीप्ततेजोमयशिराः शरीरं च चतुर्मुखम् ॥ शरीरेश इति ख्यातः सर्वत्र भुवनत्रये ॥
火のごとき光輝を放つ頭と、四つの面をもつ身体を備え、彼は三界の至る所で「シャリーレーシャ」として知られる。
Verse 117
क्षेत्रं हि मम तज्ज्ञेयं योजनानि चतुर्दश ॥ हिमाद्रेस्तुङ्गशिखरात्प्रोद्भूता वाग्मती नदी ॥
これを我が聖域(クシェートラ)と知れ。広さは十四ヨージャナである。ヒマーラヤの高き峰より、ヴァーグマティー河が湧き出た。
Verse 118
भागीरथी वेगवती कलुषं दहते नृणाम् ॥ कीर्तनादेव संशुद्धे दर्शनाद्भूतिमाप्स्यति ॥
急流なるバ―ギーラティーは、人々の穢れを焼き尽くす。その讃嘆を唱えるだけで清められ、彼女を拝するなら安寧と繁栄を得る。
Verse 119
वाग्मत्यां ते नराः स्नान्ति लभन्ते चोत्तमां गतिम् ॥ आर्ता भीताश्च संतप्ता व्याधितोऽव्याधितोऽपि वा ॥
ヴァーグマティーで沐浴する人々は、最上の行き処(安寧の境地)を得る。苦悩する者、恐れる者、悩み疲れた者、病む者、さらには病なき者も皆含まれる。
Verse 120
यस्तु दद्याद्प्रदीपं मे पर्वते श्रद्धयान्वितः ॥ सूर्यप्रभेषु देवेषु तस्योत्पत्तिर्विधीयते ॥
誠の信をもって山上で我に灯明を供える者は、その再生が太陽のごとく輝く神々の中に定められる。
Verse 121
क्रोशं क्रोशं सुरै रूपं तच्च संहृत्य निर्मितम् ॥ तीर्थं क्रोशोदकं नाम पुण्यं मुनिजनप्रियम् ॥
一クロ―シャごとに、神々はそれを集めて一つの姿を造り出した。かくして「クロ―ショーダカ」と名づけられた聖なる渡り場が成り、功徳深く、仙賢に愛された。
Verse 122
वाग्मत्याः सलिले स्नात्वा ये मां पश्यन्ति संस्कृताः ॥ वाग्मती सरितां श्रेष्ठा यत्र यत्रावगाह्यते ॥
ヴァーグマティーの水に沐浴し、その後に我を拝する者は、洗練され清められる。ヴァーグマティーは諸河の中の最勝であり、どこで入水しても沐浴の功徳がある。
The text frames ethical efficacy through disciplined interaction with place: purity (śauca), truthfulness (satya), restraint (jitendriyatā), and respectful sequencing of rites (e.g., honoring the guardian Vāsuki before entering) are presented as conditions under which pilgrimage, bathing, and offerings become socially stabilizing and morally reparative (pāpa-kṣaya).
No explicit lunar tithi, nakṣatra, or seasonal calendrics are specified. The text instead uses duration markers (e.g., ahorātra-vāsa for a dvija performing rudra-japa; multi-thousand-year divine durations in the prophecy section) and repeated practice formulas (“snātvā snātvā”) rather than festival dating.
Environmental stewardship appears indirectly through sacralized hydrology and grove-protection logic: the Vāgmatī and associated springs/confluences are treated as purifying systems requiring orderly access, clean bathing, and regulated offerings; the Śleṣmātaka-vana is depicted as a protected sacred habitat whose sanctity expands wherever the deity ‘moved, rested, or played,’ effectively turning landscape care into a dharma practice.
The chapter references major deities as narrative agents (Indra, Brahmā, Viṣṇu, Umā) and invokes Bhṛgu (via Bhṛgu-prapatana). It also contains a polity-and-lineage motif: Sūryavaṃśī kṣatriyas are said to later restore order after a period of mleccha control, establish dharma, and institute liṅga worship in the region.