Adhyaya 182
Varaha PuranaAdhyaya 18239 Shlokas

Adhyaya 182: Installation of a Stone Image (Ritual Procedure for Consecration)

Śailārcāsthāpana (Śilā-pratimā-pratiṣṭhā)

Ritual-Manual (Pratiṣṭhā and Temple-Entry Rites)

対話形式で、ヴァラーハは大地女神プリティヴィーに、ナーラーヤナの石像を安置・開眼(sthāpana/pratiṣṭhā)するための手順を段階的に説く。まず、よく検分された欠陥なき石を選び、熟練の職人を任命し、次いで印付け・作図、右繞(pradakṣiṇā)、灯明やbaliなどの供物による予備礼拝を行う。さらに、開眼・招請(āvāhana)・沐浴灌頂(snāpana)・堂宇入堂(prāsāda-praveśa)の諸真言を示し、東向きの安置、白衣と聖紐を着けての夜間の遵守を強調する。特定の供物による護摩(homa)、暦上の吉時(Pūrvaproṣṭhapadāを含む)、歌と楽器(gīta-vādya)およびヴェーダ誦唱の祝祭的音景、安置後の供養、国土・雨・農の安寧を願う鎮静の誦(śānti-japa)も規定される。結びに功徳が述べられ、如法の儀礼が共同体の安定と大地を中心とする秩序を支えると説く。

Primary Speakers

VarāhaPṛthivī

Key Concepts

śilā-pratimā-pratiṣṭhā (consecration/installation of a stone image)adhivāsana (overnight sanctification/ensouling rite)prāsāda-praveśa (bringing the deity into the temple)homa with a specified count (aṣṭottaraśata āhutis)śānti-japa for rāṣṭra-kalyāṇa (public welfare: rains, health, agriculture)ritual purity markers (śukla-vastra, śukla-yajñopavīta, dantadhāvana)

Shlokas in Adhyaya 182

Verse 1

अथ शैलार्चास्थापनम् ॥ श्रीवराह उवाच ॥ पुनरन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ॥ यथा तिष्ठामि शैलेषु प्रतिमायामितस्ततः ॥

シュリー・ヴァラーハは言った。「さらに別の作法を説こう。聞け、ヴァスンダラーよ。わたしが山々の上に、ここかしこに、聖像(ムールティ)としていかに安置されるかを。」

Verse 2

सुरूपां च शिलां दृष्ट्वा निःशल्यां सुपरिक्षिताम् ॥ तत्र दक्षं रूपकारं शीघ्रं च विनियोजयेत् ॥

形が整い、欠陥がなく、よく検分された石を見いだしたなら、ただちにそこへ熟練の彫刻師を नियुक्तすべきである。

Verse 3

शीघ्रमालिख्य तं तत्र श्वेतवर्तिकया नरः ॥ प्रदक्षिणां ततः कृत्वा पूजयेदक्षतादिभिः ॥

そこで人は白いチョークで速やかにその印を描き、次いでプラダクシナー(右回りの周行)を行い、アクシャタ(砕けていない米)などの供物で礼拝すべきである。

Verse 4

दीपकं च ततो दद्याद्बलिं दध्योदनेन च ॥ नमो नारायणायेति उक्त्वा मन्त्रमुदीरयेत् ॥

次に灯明を供え、ヨーグルト飯によるバリ(供物)を捧げる。「ナモー・ナーラーヤナーヤ(ナーラーヤナに帰依します)」と唱えてから、マントラを誦すべきである。

Verse 5

मन्त्रः— योऽसौ भवान्सर्वजनप्रवीरः सोमाग्नितेजाः सुमतिप्रधानः ॥ एतेन मन्त्रेण तु वासुदेव प्रतिष्ठितो वर्धय कीर्तिराशिम् ॥

マントラ:「汝は一切の人々の中の勇者、ソーマとアグニの光輝を具え、善き思慮において最上なり。このマントラによって、ヴァースデーヴァよ、安置されたならば、積み重なる名声の量を増大せしめたまえ。」

Verse 6

प्रवर अयुतवराह जय जय वर्धस्व ॥ अनेनैव तु मन्त्रेण कर्तव्यं यस्य यादृशम् ॥ एवंरूपं ततः कृत्वा देवं नारायणं प्रभुम् ॥

「おお最勝なる者よ、アユタ・ヴァラーハよ—勝利あれ、勝利あれ;増大し栄えよ。」この同じマントラによって、意図する形相にふさわしい作法を行い、かくのごとき形に作り終えてから、主なるナーラーヤナ、神聖なる統御者へと進む。

Verse 7

ततो वै स्थापयेत् तत्र पूर्वाभिमुखमेव तु ॥ अहोरात्रमुषित्वैवं शुक्लवस्त्रेण भूषितः ॥

それから、そこに東面して安置すべきである。かくして一昼夜を過ごし、白衣をまとって荘厳し、儀礼は続く。

Verse 8

शुक्लयज्ञोपवीती च कृत्वा वै दन्तधावनम् ॥ सर्वगन्धोदकं गृह्य इमं मन्त्रमुदाहरेत् ॥

白いヤジュニョーパヴィータ(聖紐)を身につけ、歯を清める作法を行ったのち、諸々の香を移した水を取り、このマントラを唱えるべきである。

Verse 9

मन्त्रः— योऽसौ भवांस्तिष्ठति सर्वरूपं मायाबलं सर्वजगत्स्वरूपम् ॥ एतेन मन्त्रेण जगत्स्वरूप सम्पूजितस्तिष्ठसि लोकनाथ ॥

マントラ:「汝は一切の形として住し、汝の力はマーヤー、汝の本性は全世界の相である。これなるマントラにより、世界の体現者よ、完全に供養されて、汝は住し給う、世の主よ。」

Verse 10

यो मां संस्थापयेद्भूमे मम कर्मपरायणः ॥ स याति वैष्णवं लोकं नात्र कार्या विचारणा ॥

地上において我を安置し、我が儀礼の行に専心する者は、ヴァイシュナヴァの世界に至る。これについて、さらに思案する必要はない。

Verse 11

यावकं पायसं भुक्त्वा अहोरात्रं समापयेत् ॥ ततः पश्चिमसन्ध्यायां दद्याच्चत्वारि दीपकान् ॥

大麦の粥と乳飯を食してのち、一昼夜の行を成就すべし。ついで夕べのサンディヤー(黄昏)に、四つの灯明を供えよ。

Verse 12

पञ्चगव्यं च गन्धं च वारिणा सह मिश्रयेत् ॥ चतुरः कलशांश्चैव स्थापयेत्पादमूलतः ॥

水にてパンチャガヴヤ(五牛聖物)と香料とを和合せよ。さらに神(像)の御足の根元に、四つのカラシャ(壺)を据えよ。

Verse 13

गीतवादित्रघोषेण उत्सवं तत्र कारयेत् ॥ ब्राह्मणैः सामगैस्तत्र वेदघोषं तु कारयेत् ॥

そこにて歌と楽器の響きにより祭儀の祝祭を行わせよ。さらにそこにて、サーマン讃歌を唱えるバラモンたちにヴェーダ誦唱を行わせよ。

Verse 14

ब्रह्माक्षरसहस्राणि पठतां ब्रह्मवादिनाम् ॥ येषां पठितशब्देन शुभगीतस्वरेण च ॥

梵(ブラフマン)の教えを説く者たちが、梵典の千々の音節を誦するそのとき――その誦声そのものと、吉祥なる歌誦の調べとによって……

Verse 15

पुनरावाहनं कुर्यान्मन्त्रेणानेन सुव्रतः ॥ आगच्छ हे देव सुमन्त्रयुक्तः पञ्चेन्द्रियैः षट्सु तथा प्रधानः ॥

善き戒を守る者は、この真言によって再び招請(アーヴァーハナ)を行うべし。「来たれ、神よ、善きマントラに具わり、五根とともに、六(の範疇)とともに、またプラダーナ(根本原理)として来臨したまえ。」

Verse 16

एतेषु भूतेषु च संविधाता आवासितस्तिष्ठति लोकनाथ ॥

これらの諸存在・諸元素のうちに、ここに安置された摂理者は、世界の主として住し給う。

Verse 17

अनेनैव तु मन्त्रेण समित्तिलघृतेन च ॥ मधुना चैव होतव्यमष्टोत्तरशताहुतिः ॥

またこの同じマントラによって、薪木・胡麻・ギー、さらに蜜をもって供物を捧げ、百八回の供養を行うべし。

Verse 18

पञ्चगव्यं ततः प्राश्य मन्त्रेण विधिपूर्वकम् ॥ सर्वगन्धैश्च लाजैश्च पञ्चगव्यजलं तथा ॥

次に、マントラとともに規定の作法によりパンチャガヴャ(pañcagavya)を口にし、さらに諸香とラージャ(炒り穀)を用い、同様にパンチャガヴャの水を用いる。

Verse 19

ततः प्रासादे स्थाप्योऽहं गीतवादित्रमङ्गलैः ॥ सर्वगन्धान्स्ततो गृहीत्वा इमं मन्त्रं उदाहरेत् ॥

次に、吉祥なる歌と楽器の響きの中で、プラサーダ(聖殿)に我を安置すべし。続いて諸香を取り、このマントラを唱えよ。

Verse 20

मन्त्रश्च — योऽसौ भवान्लक्षणलक्षितश्च लक्ष्म्या च युक्तः सततं पुराणः ॥ अत्र प्रासादे सुसमिद्धतेजाः प्रवेशमायाहि नमो नमस्ते ॥

そしてマントラはこうである。「まことに汝は吉祥の相により標され、常にラクシュミー(Lakṣmī)と結ばれた、永遠の太古者。こここの聖殿にて、よく燃え立つ光輝を具する者よ、来たりて入り給え。帰依し奉る、帰依し奉る。」

Verse 21

तत एतेन मन्त्रेण प्रासादं संप्रवेशयेत् ॥ प्रतिमा स्थापितव्या मे मध्ये न तु विपार्श्वतः ॥

それから、この真言によって堂(寺院)に入るべきである。尊像(プラティマー)は我がために中央に安置し、左右いずれにも偏してはならない。

Verse 22

एवं संस्थापनं कृत्वा दद्यादुद्वर्तनं विभोः ॥ चन्दनं कुङ्कुमं चैव मिश्रं कालेयकेन च ॥

このように安置を終えたなら、主にウドヴァルタナ(儀礼の塗擦)を捧げるべきである。白檀とサフランに、さらにカーリヤカを混ぜたものを用いる。

Verse 23

एवं चोद्वर्तनं कृत्वा इमं मन्त्रमुदाहरेत् ॥ योऽसौ भवान्सर्वजगत्प्रधानः सम्पूजितो ब्रह्मबृहस्पतिभ्याम् ॥ प्रवन्दितः कारणं मन्त्रयुक्तः सुस्वागतं तिष्ठ सुलोकनाथ ॥

このようにウドヴァルタナを行ったのち、次の真言を唱えるべきである。「まことに汝は一切世界の首座、梵天とブリハスパティにより礼拝される御方。汝は原因として讃えられ、真言の力を具える。ようこそ、ここにとどまりたまえ、善き世界の主よ。」

Verse 24

एवं संस्थापनं कृत्वा गन्धमाल्यैश्च पूजयेत् ॥ शुक्लवस्त्राणि मे दद्यादिमं मन्त्रमुदाहरेत् ॥

このように安置を終えたなら、香と花鬘によって礼拝すべきである。また我に白衣を捧げ、この真言を唱えるべきである。

Verse 25

मन्त्रः— वस्त्राणि देवेश गृहाण तानि मया सुभक्त्या रचितानि यानि ॥ इमानि सन्धारय विश्वमूर्त्ते प्रसीद मह्यं च नमो नमस्ते ॥

真言:「神々の主よ、我が清き信心をもって整えたこれらの衣をお受け取りください。宇宙を身とする御方よ、これらをお召しください。われに慈悲を垂れたまえ—礼拝、礼拝、汝に礼拝。」

Verse 26

एवं वस्त्राणि मे दद्याद्विधिदृष्टेन कर्मणा ॥ धूपनं मे ततो दद्यात्कुङ्कुमागुरुमिश्रितम् ॥ एवं च धूपनं दद्यादिमं मन्त्रमुदीरयेत् ॥

このように、定められた作法にかなう行為によって、わたしに衣を供えるべきである。次に、クンクマ(サフラン)とアガル(沈香)を混ぜた香をわたしに供えるべきである。香を供えるとき、この真言を唱えるべきである。

Verse 27

एवं पूजां ततः कृत्वा प्रापणं च निवेदयेत् ॥ पूर्वोक्तेन विधानेन प्रापणं चोपकल्प्य च ॥

このように礼拝を行ったのち、プラーパナ(prāpaṇa)の供物を捧げるべきである。また、先に述べた作法に従ってプラーパナを調え、それを献ずべきである。

Verse 28

पूर्वोक्तेनैव मन्त्रेण दद्यत्प्रापणकं बुधः ॥ प्रापणान्ते चाचमनं दद्याद्देहविशुद्धये ॥

先に述べた同じ真言によって、賢者はプラーパナを供えるべきである。さらにプラーパナの終わりに、身体の清浄のため、アーチャマナ(儀礼的な水の含み)を行うべきである。

Verse 29

शान्तिजापस्ततः कार्यः सर्वकार्यर्थसिद्धिदः ॥ मन्त्रः— त्वं वै सुशान्तिं कुरु लोकनाथ राज्ञः सराष्ट्रस्य च ब्राह्मणानाम् ॥ बालेषु वृद्धेषु गवाङ्गणेषु कन्यासु शान्तिं च पतिव्रतासु ॥

次に、すべての行いの目的成就をもたらすと説かれる、シャーンティ・ジャパ(śānti-japa、平安の誦持)を行うべきである。真言:「汝はまことに深き安寧をなす、世の主よ。王とその国土、そしてブラーフマナたちに。子らと老いたる者に、牛と家々に、乙女たちに、また貞節にして夫に尽くす妻たちにも、安寧あれ。」

Verse 30

रोगा विनश्यन्तु च सर्वतश्च कृषीवलानां च कृषिः सदा स्यात् ॥ सुभिक्षयुक्ताश्च सदा हि लोकाः काले सुवृष्टिर्भविता च शान्तिः ॥

あらゆる方角において病が滅び去らんことを。耕す者たちの農が常に栄えんことを。人々が常に良き糧に恵まれんことを。時にかなった慈雨がもたらされ—そして安寧があらんことを。

Verse 31

आगमिष्याम्यहं देवि मन्त्रपाठो मम प्रियः ॥ निःशब्दं च ततः कृत्वा स्थाप्यो भागवतैः सह

「我は来たらん、女神よ。マントラの誦唱は我にとって愛しきもの。次いで沈黙を定め、(尊像)はバガヴァーンの帰依者たちと共に安置すべし。」

Verse 32

एवं विधिं ततः कृत्वा विधिदृष्टेन कर्मणा ॥ सम्पूज्य तत्र देवेशं ब्राह्मणान्भोजयेद्व्रती

「かくして、次第に従い儀礼を成し、規定にかなう行為をもって、誓戒を守る者はその場で主宰神を供養し、ブラーフマナたちに食を施すべし。」

Verse 33

दीनानाथान्प्रतर्प्याथ यथाविभवशक्तितः ॥ य एतेन विधानेन कुर्यात्संस्थापनं मम

「次いで、財力と力に応じて貧しき者と庇護なき者を満たし施し—この法式によって我が安置を行う者は……」

Verse 34

यावन्तो मम गात्रेषु जायन्ते जलबिन्दवः ॥ तावद्वर्षसहस्राणि मम लोकेषु तिष्ठति

「我が肢体に生ずる水の滴の数だけ、彼は我が諸世界においてその数の千年のあいだ留まる。」

Verse 35

यो मां संस्थापयेद्भूमे सर्वाहङ्कारवर्जितः ॥ तारितं च कुलं तेन सप्त सप्त च सप्ततिः

「一切の我慢を離れて地上に我を安置する者は、その者によって一族が救いへと渡される。七、また七、そして七十(代)に至るまで。」

Verse 36

एतत्ते कथितं भद्रे शैलिकास्थापनं मम ॥ धर्मसन्धारणार्थाय मम भक्तसुखाय च

吉祥なる者よ、汝に告げた。石上における我が安置は、ダルマを支え、我が帰依者の安楽のためである。

Verse 37

करणधारणप्रवध्यं उदाहरणम् अपराजितम् अजारामर । सम्पूज्य स्नापयात्मानम् अनेन मन्त्रेण ॐ नमो वासुदेवाय ॥ एवं तु स्थापनं कृत्वा शिलायां मम सुन्दरि ॥ ततोऽधिवासनं कार्यं पूर्वप्रोष्ठपदासु च

正しく供養したのち、この真言によって自らを沐浴すべきである。「オーム、ヴァースデーヴァに帰命する」。かくして石上に我が安置を成したなら、麗しき者よ、次いでアディヴァーサナ(adhivāsana)の儀を行うべし。さらにプールヴァプローシュタパダー(Pūrvaproṣṭhapadā)の日にも行うべきである。

Verse 38

एवं कृते विधाने भवामि सन्निहितः स्वयम् ॥ व्यतीतायां तु शर्वर्यां प्रभाते विमले ततः

このように作法が行われるなら、我自らが現前する。夜が過ぎ去り、清らかな朝となれば……

Verse 39

मन्त्रः — असावनादिः पुरुषः पुराणो नारायणः सर्वजगत्प्रधानः ॥ गन्धं च माल्यानि च धूपदीपौ गृहाण देवेश नमो नमस्ते

真言:「かの無始の原初のプルシャ、古き者—ナーラーヤナ、全世界の最上の根本原理。神々の主よ、香と花鬘と薫香と灯明を受けたまえ。帰命、帰命したてまつる。」

Frequently Asked Questions

The text frames correct ritual installation as a mechanism for sustaining dharma and collective stability: the śānti-japa explicitly targets the welfare of the polity (rājñah and rāṣṭra), the protection of vulnerable groups, agricultural success, and timely rains. In this internal logic, temple consecration is not only personal devotion but a public-order practice linking sacred procedure to terrestrial balance addressed through Pṛthivī.

The excerpt specifies timing elements including an overnight observance (ahorātra), evening action at the western twilight (paścima-sandhyā), and a calendrical reference to Pūrvaproṣṭhapadā (noted as a timing for adhivāsana). It also indicates a next-morning sequence after the night has passed (vyatītāyāṃ tu śarvaryāṃ prabhāte vimale).

Environmental and terrestrial balance is expressed through the Pṛthivī-addressed pedagogy and, most concretely, the śānti-japa’s desired outcomes: elimination of disease, agricultural flourishing (kṛṣi), abundance (subhikṣa), and timely rainfall (kāle su-vṛṣṭi). The narrative thus encodes an early ecological ethic where ritual order is mapped onto Earth’s productivity and social resilience.

No royal dynasties or named historical lineages appear in the provided excerpt. The chapter references social and ritual categories—brāhmaṇas (including sāmagas and brahmavādins), the king (rājā), and community groups (children, elders, women, cattle/households)—as recipients of the śānti benefits, but without specific proper names.