Yogatattva
अल्पमूत्रपुरीषश्च स्वल्पनिद्रश्च जायते । कीलवो दृषिका लाला स्वेददुर्गन्धतानने ॥ एतानि सर्वथा तस्य न जायन्ते ततः परम् । ततोऽधिकतराभ्यासाद् बलम् उत्पद्यते बहु ॥ येन भूचरसिद्धिः स्याद् भूचराणां जये क्षमः । व्याघ्रो वा शरभो व्यापि गजो गवय एव वा ॥ सिंहो वा योगिना तेन म्रियन्ते हस्तताडिताः । कन्दर्पस्य यथा रूपं तथा स्यादपि योगिनः ॥
अल्प-मूत्र-पुरीषः च । स्वल्प-निद्रः च । जायते । कीलवः । दृषिका । लाला । स्वेद-दुर्गन्धता-आनने । एतानि । सर्वथा । तस्य । न । जायन्ते । ततः । परम् । ततः । अधिकतर-अभ्यासात् । बलम् । उत्पद्यते । बहु । येन । भूचर-सिद्धिः । स्यात् । भूचराणाम् । जये । क्षमः । व्याघ्रः । वा । शरभः । व्यापि । गजः । गवयः । एव । वा । सिंहः । वा । योगिना । तेन । म्रियन्ते । हस्त-ताडिताः । कन्दर्पस्य । यथा । रूपम् । तथा । स्यात् । अपि । योगिनः ।
alpamūtrapurīṣaś ca svalpanidraś ca jāyate | kīlavo dṛśikā lālā svedadurgandhatānane || etāni sarvathā tasya na jāyante tataḥ param | tato’dhikatarābhyāsād balam utpadyate bahu || yena bhūcarasiddhiḥ syād bhūcarāṇāṃ jaye kṣamaḥ | vyāghro vā śarabho vyāpi gajo gavaya eva vā || siṃho vā yoginā tena mriyante hastatāḍitāḥ | kandarpasya yathā rūpaṃ tathā syād api yoginaḥ ||
彼には、排尿・排便がわずかとなり、睡眠も少なくなる。(また)針で刺すような感覚、眼の震え、唾液の増加、顔に悪臭を帯びた汗が現れることがある。だがその段階を過ぎれば、これらはまったく起こらなくなる。さらにいっそうの修習によって大いなる力が生じ、地上を自在に行く成就(ブーフチャラ・シッディ)が現れ、虎・シャラバ・豹・象・野牛・獅子といった地上の生類に勝利し得るという。ヨーギーの手に打たれればそれらは死すとも語られる。かくしてヨーギーの姿は、カーマ(カンダルパ)のごとくなる。
For him there arises scant urination and excretion, and little sleep. (There may be) a sensation of pins/needles, trembling of the eyes, salivation, and sweat with a foul odor on the face. After that stage, these do not arise for him at all. Then, by still greater practice, much strength is produced—by which there is the accomplishment called ‘moving on the earth’ (bhūcara-siddhi), and he becomes capable in victory over terrestrial beings: whether tiger, śarabha, leopard, elephant, wild ox, or lion—these are said to die when struck by the yogin’s hand. The yogin’s form becomes like that of Kāma (Cupid).