Yogatattva
प्रातःस्नानोपवासादिकायक्लेशांश्च वर्जयेत् ।
अभ्यासकाले प्रथमं शस्तं क्षीराज्यभोजनम् ॥
गोधूममुद्गशाल्यन्नं योगवृद्धिकरं विदुः ।
ततः परं यथेष्टं तु शक्तः स्याद्वायुधारणे ॥
प्रातः-स्नान । उपवास-आदि । काय-क्लेशान् । च । वर्जयेत् ।
अभ्यास-काले । प्रथमम् । शस्तम् । क्षीर-आज्य-भोजनम् ।
गोधूम । मुद्ग । शालि-अन्नम् । योग-वृद्धि-करम् । विदुः ।
ततः । परम् । यथा-इष्टम् । तु । शक्तः । स्यात् । वायु-धारणे ।
prātaḥsnānopavāsādikāyakleśāṃśca varjayet |
abhyāsakāle prathamaṃ śastaṃ kṣīrājyabhojanam ||
godhūmamudgaśālyannaṃ yogavṛddhikaraṃ viduḥ |
tataḥ paraṃ yatheṣṭaṃ tu śaktaḥ syādvāyudhāraṇe ||
早朝の沐浴や断食などの身体的苦行は避けるべきである。修習の時、初めには乳とギーの食が善しとされる。小麦、ムング豆、米はヨーガの増進をもたらすと知られる。その後は望むままに;やがて生命の風(プラーナ)を保持する力を得る。
One should avoid bodily mortifications such as bathing early in the morning and fasting. At the time of practice, at first, the recommended food is milk and ghee. Wheat, mung-bean, and rice are known to promote the increase of yoga. Thereafter, as one wishes; one becomes capable in the retention of the vital wind (prāṇa).