Turiyateeta
अथ तुरीयातीतावधूतानां कोऽयं मार्गस्तेषां का स्थितिरिति पितामहो भगवन्तं पितरमादिनारायणं परिसमेत्योवाच। तमाह भगवन्नारायणो योऽयमवधूतमार्गस्थो लोके दुर्लभतरो न तु बाहुल्यो यद्येको भवति स एव नित्यपूतः स एव वैराग्यमूर्तिः स एव ज्ञानाकारः स एव वेदपुरुष इति ज्ञानिनो मन्यन्ते। महापुरुषो यस्तच्चित्तं मय्येवावतिष्ठते। अहं च तस्मिन्नेवावस्थितः। सोऽयमादौ तावत्क्रमेण कुटीचको बहूदकत्वं प्राप्य बहूदको हंसत्वमवलम्ब्य हंसः परमहंसो भूत्वा स्वरूपानुसन्धानेन सर्वप्रपञ्चं विदित्वा दण्डकमण्डलुकटिसूत्रकौपीनाच्छादनं स्वविध्युक्तक्रियादिकं सर्वमप्सु संन्यस्य दिगम्बरो भूत्वा विवर्णजीर्णवल्कलाजिनपरिग्रहमपि संत्यज्य तदूर्ध्वममन्त्रवदाचरन् क्षौराभ्यङ्गस्नानोर्ध्वपुण्ड्रादिकं विहाय लौकिकवैदिकमप्युपसंहृत्य सर्वत्र पुण्यापुण्यवर्जितो ज्ञानाज्ञानमपि विहाय शीतोष्णसुखदुःखमानावमानं निर्जित्य वासनात्रयपूर्वकं निन्दानिन्दागर्वमत्सरदम्भदर्पद्वेषकामक्रोधलोभमोहहर्षामर्षासूयात्मसंरक्षणादिकं दग्ध्वा स्ववपुः कुणपाकारमिव पश्यन् अयत्नेनानियमेन लाभालाभौ समौ कृत्वा गोवृत्त्या प्राणसन्धारणं कुर्वन् यत्प्राप्तं तेनैव निर्लोलुपः सर्वविद्यापाण्डित्यप्रपञ्चं भस्मीकृत्य स्वरूपं गोपयित्वा ज्येष्ठाज्येष्ठत्वानपलापकः सर्वोत्कृष्टत्वसर्वात्मकत्वाद्वैतं कल्पयित्वा मत्तो व्यतिरिक्तः कश्चिन्नान्योऽस्तीति देवगुह्यादिधनमात्मन्युपसंहृत्य दुःखेन नोद्विग्नः सुखेन नानुमोदको रागे निःस्पृहः सर्वत्र शुभाशुभयोरनभिस्नेहः सर्वेन्द्रियोपरमः स्वपूर्वापन्नाश्रमाचारविद्याधर्मप्राभवमननुस्मरन् त्यक्तवर्णाश्रमाचारः सर्वदा दिवानक्तसमत्वेनास्वप्नः सर्वदा संचरशीलो देहमात्रवशिष्टो जलस्थलकमण्डलुः सर्वदानुन्मत्तो बालोन्मत्तपिशाचवदेकाकी संचरन् असंभाषणपरः स्वरूपध्यानेन निरालम्बमवलम्ब्य स्वात्मनिष्ठानुकूलेन सर्वं विस्मृत्य तुरीयातीतावधूतवेषेणाद्वैतनिष्ठापरः प्रणवात्मकत्वेन देहत्यागं करोति यः सोऽवधूतः। स कृतकृत्यो भवतीत्युपनिषत्॥
अथ । तुरीयातीत-अवधूतानाम् । कः । अयम् । मार्गः । तेषाम् । का । स्थितिः । इति । पितामहः । भगवन्तम् । पितरम् । आदिनारायणम् । परिसमेत्य । उवाच । तम् । आह । भगवन्-नारायणः । यः । अयम् । अवधूत-मार्ग-स्थः । लोके । दुर्लभतरः । न । तु । बाहुल्यः । यदि । एकः । भवति । सः । एव । नित्य-पूतः । सः । एव । वैराग्य-मूर्तिः । सः । एव । ज्ञान-आकारः । सः । एव । वेद-पुरुषः । इति । ज्ञानिनः । मन्यन्ते । महापुरुषः । यः । तत्-चित्तम् । मयि । एव । अवतिष्ठते । अहम् । च । तस्मिन् । एव । अवस्थितः । सः । अयम् । आदौ । तावत् । क्रमेण । कुटीचकः । बहूदकत्वम् । प्राप्य । बहूदकः । हंसत्वम् । अवलम्ब्य । हंसः । परमहंसः । भूत्वा । स्वरूप-अनुसन्धानॆन । सर्व-प्रपञ्चम् । विदित्वा । दण्ड-कमण्डलु-कटि-सूत्र-कौपीन-आच्छादनम् । स्व-विधि-उक्त-क्रिया-आदिकम् । सर्वम् । अप्सु । संन्यस्य । दिगम्बरः । भूत्वा । विवर्ण-जीर्ण-वल्कल-आजिन-परिग्रहम् । अपि । संत्यज्य । तत्-ऊर्ध्वम् । अमन्त्रवत् । आचरन् । क्षौर-अभ्यङ्ग-स्नान-ऊर्ध्व-पुण्ड्र-आदिकम् । विहाय । लौकिक-वैदिकम् । अपि । उपसंहृत्य । सर्वत्र । पुण्य-अपुण्य-वर्जितः । ज्ञान-अज्ञानम् । अपि । विहाय । शीत-उष्ण-सुख-दुःख-मान-अवमानम् । निर्जित्य । वासना-त्रय-पूर्वकम् । निन्दा-अनिन्दा-गर्व-मत्सर-दम्भ-दर्प-द्वेष-काम-क्रोध-लोभ-मोह-हर्ष-अमर्ष-असूया-आत्म-संरक्षण-आदिकम् । दग्ध्वा । स्व-वपुः । कुणप-आकारम् । इव । पश्यन् । अयत्नेन । अनियमेन । लाभ-अलाभौ । समौ । कृत्वा । गो-वृत्त्या । प्राण-सन्धारणम् । कुर्वन् । यत्-प्राप्तम् । तेन । एव । निर्लोलुपः । सर्व-विद्या-पाण्डित्य-प्रपञ्चम् । भस्मीकृत्य । स्वरूपम् । गोपयित्वा । ज्येष्ठ-अज्येष्ठत्वम् । अनपलापकः । सर्व-उत्कृष्टत्व-सर्व-आत्मकत्व-अद्वैतम् । कल्पयित्वा । मत्तः । व्यतिरिक्तः । कश्चित् । न । अन्यः । अस्ति । इति । देव-गुह्य-आदि-धनम् । आत्मनि । उपसंहृत्य । दुःखेन । न । उद्विग्नः । सुखेन । न । अनुमोदकः । रागे । निःस्पृहः । सर्वत्र । शुभ-अशुभयोः । अनभिस्नेहः । सर्व-इन्द्रिय-उपरमः । स्व-पूर्व-आपन्न-आश्रम-आचार-विद्या-धर्म-प्राभवम् । अननुस्मरन् । त्यक्त-वर्ण-आश्रम-आचारः । सर्वदा । दिवा-नक्त-समत्वेन । अस्वप्नः । सर्वदा । संचार-शीलः । देह-मात्र-वशिष्टः । जल-स्थल-कमण्डलुः । सर्वदा । अनुन्मत्तः । बाल-उन्मत्त-पिशाच-वत् । एकाकी । संचरन् । असंभाषण-परः । स्वरूप-ध्यानेन । निरालम्बम् । अवलम्ब्य । स्व-आत्म-निष्ठा-अनुकूलॆन । सर्वम् । विस्मृत्य । तुरीयातीत-अवधूत-वेषेण । अद्वैत-निष्ठा-परः । प्रणव-आत्मकत्वेन । देह-त्यागम् । करोति । यः । सः । अवधूतः । सः । कृत-कृत्यः । भवति । इति । उपनिषत् ॥
atha turīyātītāvadhūtānāṁ ko'yaṁ mārgaḥ teṣāṁ kā sthitir iti pitāmaho bhagavantaṁ pitaram ādinārāyaṇaṁ parisametya uvāca | tam āha bhagavan-nārāyaṇo yo'yam avadhūta-mārga-stho loke durlabhataraḥ na tu bāhulyaḥ yady eko bhavati sa eva nitya-pūtaḥ sa eva vairāgya-mūrtiḥ sa eva jñānākāraḥ sa eva veda-puruṣa iti jñānino manyante | mahāpuruṣo yas tac-cittaṁ mayy evāvatiṣṭhate | ahaṁ ca tasminn evāvasthitaḥ | so'yam ādau tāvat krameṇa kuṭīcako bahūdakatvaṁ prāpya bahūdako haṁsatvam avalambya haṁsaḥ paramahaṁso bhūtvā svarūpānusandhānena sarva-prapañcaṁ viditvā daṇḍa-kamaṇḍalu-kaṭi-sūtra-kaupīnāchādanaṁ sva-vidhy-ukta-kriyādikaṁ sarvam apsu saṁnyasya digambaro bhūtvā vivarṇa-jīrṇa-valkalājina-parigraham api saṁtyajya tad ūrdhvam amantravad ācaran kṣaurābhyaṅga-snānordhva-puṇḍrādikaṁ vihāya laukika-vaidikam apy upasaṁhṛtya sarvatra puṇyāpuṇya-varjito jñānājñānam api vihāya śītoṣṇa-sukha-duḥkha-mānāvamānaṁ nirjitya vāsanā-traya-pūrvakaṁ nindānindā-garva-matsara-dambha-darpa-dveṣa-kāma-krodha-lobha-moha-harṣāmarṣāsūyātma-saṁrakṣaṇādikaṁ dagdhvā sva-vapuḥ kuṇapākāram iva paśyan ayatnenāniyamena lābhālābhau samau kṛtvā go-vṛttyā prāṇa-sandhāraṇaṁ kurvan yat-prāptaṁ tenaiva nirlolupaḥ sarva-vidyā-pāṇḍitya-prapañcaṁ bhasmīkṛtya svarūpaṁ gopayitvā jyeṣṭhājyeṣṭhatvān apalāpakaḥ sarvotkṛṣṭatva-sarvātmakatvādvaitaṁ kalpayitvā matto vyatiriktaḥ kaścin nānyo'stīti deva-guhyādi-dhanam ātmany upasaṁhṛtya duḥkhena nodvignaḥ sukhena nānumodako rāge niḥspṛhaḥ sarvatra śubhāśubhayor anabhisnehaḥ sarvendriyoparamaḥ sva-pūrvāpannāśramācāra-vidyā-dharma-prābhavam ananusmaran tyakta-varṇāśramācāraḥ sarvadā divā-nakta-samatvenāsvapnaḥ sarvadā saṁcāra-śīlo deha-mātra-vaśiṣṭo jala-sthala-kamaṇḍaluḥ sarvadā anunmatto bālonmatta-piśāca-vad ekākī saṁcaran asaṁbhāṣaṇa-paraḥ svarūpa-dhyānena nirālambam avalambya svātma-niṣṭhānukūlena sarvaṁ vismṛtya turīyātītāvadhūta-veṣeṇādvaita-niṣṭhā-paraḥ praṇavātmakatvena deha-tyāgaṁ karoti yaḥ so'vadhūtaḥ | sa kṛta-kṛtyo bhavatīty upaniṣat ||
そのときピターマハ(祖父祖霊)は、至福なる主、父なるアーディ・ナーラーヤナに近づいて言った。「第四(トゥリーヤ)をも超えたトゥリーヤーティータのアヴァドゥータたちの道とは何か。彼らの住処(境地)はいかなるものか。」福徳のナーラーヤナは答えた。「アヴァドゥータの道に住する者は世にきわめて稀であり、多くはない。もしそのような一人があるなら、彼こそ常に清浄であり、彼こそ離欲(ヴァイラーギャ)の化身であり、彼こそ智の相であり、彼こそヴェーダのプルシャである、と知者は考える。その大いなる人(マハープルシャ)で、心がただ我にのみ安住する者—我もまたただ彼にのみ安住する。かの者は初め、順次に、クティーチャカとなり、バフーダカの位を得、バフーダカはハンサの位を取り、ハンサはパラマハンサとなる。ついで自己の本性を探究し、現象界の全展開を知り尽くして、杖・水壺(カマンダル)・腰紐・褌と覆い、ならびに定められた諸行を水に捨て、方角を衣とする者となり、色褪せ朽ちた樹皮衣や皮衣の所持さえも捨てる。その後、まるでマントラ無き者のように振る舞い、剃髪・塗油・沐浴・縦の印(ウールドヴァプンドラ)などを離れ、世俗とヴェーダの作法をも収め、あらゆる所で福徳と罪過を超え、知と無知さえも捨て、寒暑・楽苦・名誉と辱めを征服する。さらに三つの潜在傾向とともに、称賛と非難、驕り、嫉み、偽り、傲慢、憎しみ、欲、怒り、貪り、迷妄、歓喜、憤り、悪意、自己防衛などを焼き尽くし、自らの身体を屍のごとく観る。努力なく一定の規則なくして得失を等しくし、「牛のあり方」(来たるものを受ける)によって命を保ち、得たものに貪らず、学芸と博識の誇示を灰とし、真の本性を秘し、年長・年少を主張せず、非二一如を最高の卓越と万有自己性として立て、「我より別なる他者はまったく存在しない」と結論する。神秘の富などを自己に収め、苦に動ぜず、楽に喜び過ぎず、執着の中にあっても欲なく、吉凶に染まらず、諸根を寂静にし、以前の生の段階・行い・学・ダルマの威力を思い返さず、ヴァルナとアーシュラマの作法を捨て、昼夜平等にして眠らず、常に遊行し、ただ身体のみを残し、水にも陸にも用いるカマンダルを携え、狂せずしてなお、子ども・狂人・鬼魅のように独り歩み、語らず、自己本性の禅定によって無依のものを依り所とし、我(アートマン)に安住するに従って一切を忘れ、トゥリーヤーティータのアヴァドゥータの姿において非二に専念し、プラナヴァ(オーム)の本性として身を捨てる。彼こそアヴァドゥータであり、なすべきことを成し終えた者となる—これがウパニシャッドである。
Now, the Grandfather (Pitāmaha) approached the Blessed Lord, the Father, Ādi-Nārāyaṇa, and said: “What is the path of those avadhūtas who are beyond the Fourth (turīyātīta), and what is their state?” The Blessed Nārāyaṇa replied: “He who abides in the avadhūta-path is rarer in the world and not common. If such a one exists, he alone is ever-purified; he alone is the embodiment of dispassion; he alone is the form of knowledge; he alone is the Veda-Puruṣa—so the knowers think. That great person whose mind rests in Me alone—I too abide in him alone. Such a one, at first, in due order, becoming a kuṭīcaka, attaining the state of bahūdaka, the bahūdaka taking up the state of haṁsa, the haṁsa becoming a paramahaṁsa—then, by inquiry into his own nature and by knowing the entire phenomenal expanse, he casts into water staff, water-pot, waist-cord, loincloth and covering, and all prescribed rites; becoming sky-clad, he abandons even the possession of discolored, worn bark-garments and skins. Thereafter, acting as though without mantras, he gives up shaving, oiling, bathing, the vertical sect-mark, and the like; he also withdraws from worldly and Vedic observances; everywhere he is free from merit and demerit, abandoning even knowledge and ignorance; conquering cold and heat, pleasure and pain, honor and dishonor; burning up, together with the three latent tendencies, praise and blame, pride, envy, hypocrisy, arrogance, hatred, desire, anger, greed, delusion, joy, resentment, malice, self-protection and the like; seeing his own body as if a corpse; effortlessly and without fixed rule making gain and loss equal; sustaining life by the ‘cow’s mode’ (accepting what comes), without greed for what is obtained; reducing to ashes the display of all learning and scholarship; concealing his true nature; not asserting seniority or non-seniority; positing nonduality as supreme excellence and as all-selfhood; concluding that apart from Me there is no other whatsoever; gathering into himself the ‘wealth’ of divine secrets and the like; not agitated by sorrow, not elated by happiness; desireless amid attachments; everywhere without clinging to auspicious and inauspicious; with the senses stilled; not recalling the power of former stages of life, conduct, learning, and dharma; having abandoned varṇa-and-āśrama conduct; always equal in day and night, without sleep; always wandering; with only the body remaining; with a water-pot fit for water or land; always not mad, yet wandering alone like a child, a madman, or a goblin; intent on non-conversation; taking refuge in the supportless through meditation on his own nature; forgetting everything in accordance with establishment in the Self; devoted to nondual abidance in the guise of a turīyātīta avadhūta—he relinquishes the body as of the nature of Praṇava (Oṁ). He is the avadhūta; he becomes one who has accomplished what is to be accomplished—thus is the Upaniṣad.