Naadbindu
सर्वचिन्तां समुत्सृज्य सर्वचेष्टाविवर्जितः । नादमेवानुसंदध्यान्नादे चित्तं विलीयते॥४१॥
सर्व-चिन्ताम् । समुत्सृज्य । सर्व-चेष्टा-विवर्जितः । नादम्-एव । अनुसंदध्यात् । नादे । चित्तम् । विलीयते ॥४१॥
sarvacintāṃ samutsṛjya sarvaceṣṭāvivarjitaḥ | nādam evānusaṃdadhyān nāde cittaṃ vilīyate ||41||
あらゆる思惟を捨て、いかなる営みからも離れて、ただナーダのみに随念せよ。ナーダのうちに心は融けて消え入る。
Having cast off all thought and being devoid of all activity, one should attend to sound (nāda) alone; in sound the mind dissolves.