Mundaka
तदेतत् सत्यमृषिरङ्गिराः पुरोवाच नैतदचीर्णव्रतोऽधीते । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥११॥
तत् । एतत् । सत्यम् । ऋषिः । अङ्गिराः । पुरा । उवाच । न । एतत् । अचीर्ण-व्रतः । अधीते । नमः । परम-ऋषिभ्यः । नमः । परम-ऋषिभ्यः ॥
tad etat satyam ṛṣir aṅgirāḥ purovāca naitad acīrṇavrato ’dhīte | namaḥ paramarṣibhyo namaḥ paramarṣibhyaḥ ||11||
これこそ、古(いにしえ)に聖仙アンギラスが宣言した真実である。定められた誓戒と行を修めていない者は、この教えを学び得ない。至高のリシたちに帰敬、至高のリシたちに帰敬。
This indeed is the truth which the seer Aṅgiras declared of old: one who has not performed (the requisite) observances does not study/attain this (teaching). Homage to the supreme seers; homage to the supreme seers.