Kshurika
ततः कण्ठान्तरे योगी समूहन्नाडिसञ्चयम् । एकोत्तरं नाडिशतं तासां मध्ये वराः स्मृताः ॥ सुषुम्ना तु परे लीना विरजा ब्रह्मरूपिणी । इडा तिष्ठति वामेन पिङ्गला दक्षिणेन च ॥
ततः । कण्ठ-अन्तरे । योगी । समूहन् । नाडि-सञ्चयम् । एक-उत्तरम् । नाडि-शतम् । तासाम् । मध्ये । वराः । स्मृताः । सुषुम्ना । तु । परे । लीना । विरजा । ब्रह्म-रूपिणी । इडा । तिष्ठति । वामेन । पिङ्गला । दक्षिणेन । च ।
tataḥ kaṇṭhāntare yogī samūhan nāḍisañcayam | ekottaraṃ nāḍiśataṃ tāsāṃ madhye varāḥ smṛtāḥ || suṣumnā tu pare līnā virajā brahmarūpiṇī | iḍā tiṣṭhati vāmena piṅgalā dakṣiṇena ca ||
次に、喉の領域において、ヨーギーはナーディー(微細なる気道)の群れを集め観ずる。ナーディーは百一ある。その中で、すぐれたものが主要と伝えられる。スシュムナーは至上に融け入り、垢なき(ヴィラジャ)ブラフマンの性質をもつ。イダーは左に、ピンガラーは右に在る。
Then, in the region of the throat, the yogin gathers (i.e., considers/collects) the assemblage of nāḍīs: a hundred and one nāḍīs. Among them, the excellent ones are remembered (as principal). Suṣumnā is merged in the Supreme; (she is) stainless (virajā), of the nature of Brahman. Iḍā stands on the left, and Piṅgalā on the right.