Katharudra
व्यावृत्तानि परं प्राप्तुं न समर्थानि तानि तु ॥
तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् ।
विदित्वा स्वात्मरूपेण न बिभेति कुतश्चन ॥
एवं यस्तु विजानाति स्वगुरोरुपदेशतः ।
स साध्वासाधुकर्मभ्यां सदा न तपति प्रभुः ॥
ताप्यतापकरूपेण विभातमखिलं जगत् ॥
व्यावृत्तानि । परम् । प्राप्तुम् । न । समर्थानि । तानि । तु ॥
तत् । ब्रह्म-आनन्दम् । अद्वन्द्वम् । निर्गुणम् । सत्य-चित्-घनम् ।
विदित्वा । स्व-आत्म-रूपेण । न । बिभेति । कुतश्चन ॥
एवम् । यः । तु । विजानाति । स्व-गुरोः । उपदेशतः ।
सः । साधु-असाधु-कर्मभ्याम् । सदा । न । तपति । प्रभुः ॥
ताप्य-अतापक-रूपेण । विभातम् । अखिलम् । जगत् ॥
vyāvṛttāni paraṃ prāptuṃ na samarthāni tāni tu ||
tad brahmānandam advandvaṃ nirguṇaṃ satyacidghanaṃ |
viditvā svātmarūpeṇa na bibheti kutaścana ||
evaṃ yas tu vijānāti svaguror upadeśataḥ |
sa sādhvāsādhukarmabhyāṃ sadā na tapati prabhuḥ ||
tāpyatāpakarūpeṇa vibhātam akhilaṃ jagat ||
しかし、それら(諸感官)は退いたとしても、至上に到達する力はない。 対立の二に離れ、無 गुण(ニルグナ)にして、真理と意識の濃密なる塊であるブラフマンの歓喜を、自らの自己として知るなら、いかなるものをも恐れない。 このように自らの師の教示によって知る者、その主は善業にも悪業にも常に焼かれることがない。 しかも全世界は「焼かれるもの」と「焼くもの」(影響されるものと影響するもの)の相として現れる。
But those (senses), having been withdrawn, are not capable of attaining the Supreme. Having known that Brahman-bliss—free from pairs of opposites, without qualities, a dense mass of truth and consciousness—as one’s own Self, one fears nothing whatsoever. And he who thus knows, from the instruction of his own guru, that lordly one is never scorched by good or bad actions, while the entire world appears in the form of the ‘heated’ and the ‘heater’ (the affected and the affecting).