HomeUpanishadsKatharudraVerse 27
Previous Verse
Next Verse

Verse 27

Katharudra

सारमेव रसं लब्ध्वा साक्षाद्देही सनातनम् । सुखी भवति सर्वत्र अन्यथा सुखता कुतः ॥ असत्यस्मिन्परानन्दे स्वात्मभूतेऽखिलात्मनाम् । को जीवति नरो जन्तुः को वा नित्यं विचेष्टते ॥ तस्मात्सर्वात्मना चित्ते भासमानो ह्यसौ नरः । आनन्दयति दुःखाढ्यं जीवात्मानं सदा जनः ॥ यदा ह्येवैष एतस्मिन्नदृश्यत्वादिलक्षणे । निर्भेदं परमाद्वैतं विन्दते च महायतिः ॥ तदेवाभयमत्यन्तकल्याणं परमामृतम् । सद्रूपं परमं ब्रह्म त्रिपरिच्छेदवर्जितम् ॥ यदा ह्येवैष एतस्मिन्नल्पमप्यन्तरं नरः । विजानाति तदा तस्य भयं स्यान्नात्र संशयः ॥ अस्यैवानन्दकोशेन स्तम्बान्ता विष्णुपूर्वकाः । भवन्ति सुखिनो नित्यं तारतम्यक्रमेण तु ॥ तत्तत्पदविरक्तस्य श्रोत्रियस्य प्रसादिनः । स्वरूपभूत आनन्दः स्वयं भाति परे यथा ॥ निमित्तं किंचिदाश्रित्य खलु शब्दः प्रवर्तते । यतो वाचो निवर्तन्ते निमित्तानामभवतः ॥ निर्विशेषे परानन्दे कथं शब्दः प्रवर्तते । तस्मादेतन्मनः सूक्ष्मं व्यावृतं सर्वगोचरम् ॥ यस्माच्छ्रोत्रत्वगक्ष्यादिखादिकर्मेन्द्रियाणि च ॥

सारम् एव रसम् लब्ध्वा साक्षात् देही सनातनम् । सुखी भवति सर्वत्र अन्यथा सुखता कुतः ॥ असति अस्मिन् पर-आनन्दे स्व-आत्म-भूते अखिल-आत्मनाम् । कः जीवति नरः जन्तुः कः वा नित्यम् विचेष्टते ॥ तस्मात् सर्व-आत्मना चित्ते भासमानः हि असौ नरः । आनन्दयति दुःख-आढ्यम् जीव-आत्मानम् सदा जनः ॥ यदा हि एव एषः एतस्मिन् अदृश्यत्व-आदि-लक्षणे । निर्भेदम् परम-अद्वैतम् विन्दते च महा-यतिः ॥ तत् एव अभयम् अत्यन्त-कल्याणम् परम-अमृतम् । सत्-रूपम् परमम् ब्रह्म त्रि-परिच्छेद-वर्जितम् ॥ यदा हि एव एषः एतस्मिन् अल्पम् अपि अन्तरम् नरः । विजानाति तदा तस्य भयम् स्यात् न अत्र संशयः ॥ अस्य एव आनन्द-कोशेन स्तम्ब-अन्ताः विष्णु-पूर्वकाः । भवन्ति सुखिनः नित्यम् तारतम्य-क्रमेण तु ॥ तत्-तत्-पद-विरक्तस्य श्रोत्रियस्य प्रसादिनः । स्वरूप-भूतः आनन्दः स्वयम् भाति परे यथा ॥ निमित्तम् किञ्चित् आश्रित्य खलु शब्दः प्रवर्तते । यतः वाचः निवर्तन्ते निमित्तानाम् अभवतः ॥ निर्विशेषे पर-आनन्दे कथम् शब्दः प्रवर्तते । तस्मात् एतत् मनः सूक्ष्मम् व्यावृतम् सर्व-गोचरम् ॥ यस्मात् श्रोत्र-त्वक्-अक्षि-आदि-ख-आदि कर्म-इन्द्रियाणि च ॥

sāram eva rasaṃ labdhvā sākṣād dehī sanātanam | sukhī bhavati sarvatra anyathā sukhatā kutaḥ || asaty asmin parānande svātmabhūte ’khilātmanām | ko jīvati naro jantuḥ ko vā nityaṃ viceṣṭate || tasmāt sarvātmanā citte bhāsamāno hy asau naraḥ | ānandhayati duḥkhāḍhyaṃ jīvātmānaṃ sadā janaḥ || yadā hy evaiṣa etasminn adṛśyatvādilakṣaṇe | nirbhedaṃ paramādvaitaṃ vindate ca mahāyatiḥ || tad evābhayam atyantakalyāṇaṃ paramāmṛtam | sadrūpaṃ paramaṃ brahma triparicchedavarjitam || yadā hy evaiṣa etasminn alpam apy antaraṃ naraḥ | vijānāti tadā tasya bhayaṃ syān nātra saṃśayaḥ || asyaivānandakośena stambhāntā viṣṇupūrvakāḥ | bhavanti sukhino nityaṃ tāratamyakrameṇa tu || tattatpadaviraktasya śrotriyasya prasādinaḥ | svarūpabhūta ānandaḥ svayaṃ bhāti pare yathā || nimittaṃ kiñcid āśritya khalu śabdaḥ pravartate | yato vāco nivartante nimittānām abhavataḥ || nirviśeṣe parānande kathaṃ śabdaḥ pravartate | tasmād etan manaḥ sūkṣmaṃ vyāvṛtaṃ sarvagocaram || yasmāc chrotratvagakṣyādikhādikarmendriyāṇi ca ||

本質そのもの、すなわちラサを得たとき、永遠の有身の自己は直ちにあらゆる所で幸福となる。さもなくば、いかにして幸福があり得ようか。万我の自己そのものであるこの最高の歓喜がもし虚妄であるなら、人や生きもののうち誰が生き、誰が絶えず働くであろうか。ゆえに、心のうちに自己として輝くその人は、悲しみに満ちたジーヴァ・アートマンを常に歓ばせる。まさにこの大修行者が、不可視などの相をもつそれにおいて、差別なき最高の不二一元(パラマ・アドヴァイタ)を見いだすとき、それこそが無畏であり、至上の善であり、最高の甘露である—存在を本性とし、三つの限定を離れた至上のブラフマンである。だが人がそこにほんのわずかな隔たりを知るなら、その者に恐れが生ずる—疑いはない。この歓喜の鞘によって、動かぬ「スタンバ」からヴィシュヌに至り、さらにその上に至るまでの諸存在は、段階の差をもって常に幸福となる。諸位に執着せず、静謐で恩寵ある聖典通暁者(シュロートリヤ)には、自性である歓喜が、あたかも至上において自ずから輝く。言葉は何らかの拠りどころに依ってこそ働くが、そこ(至上)では拠りどころが無いゆえ、言葉は退く。無相の最高歓喜において、どうして言葉が働き得ようか。ゆえにこの心は微細で、あらゆる対象から退き—そこから耳・皮膚・眼などの感官と、諸々の行為器官が生ずる…

Having obtained the very essence, the rasa, the eternal embodied (Self) becomes directly happy everywhere; otherwise, whence could happiness be? If this supreme bliss—being the very Self of all selves—were unreal, who among men and creatures would live, or who would constantly act? Therefore, that person who shines in the mind as the Self gladdens the jīva-self, ever burdened with sorrow. When indeed this great ascetic finds, in that which is characterized by invisibility and the like, the non-differentiated supreme non-duality, that alone is fearlessness, the highest good, the supreme nectar—Brahman, whose nature is Being, free from the three limitations. But when a man knows even a slight difference in this, then fear would arise for him—of this there is no doubt. By this very bliss-sheath, beings from (the immobile) ‘stambha’ up to Viṣṇu and beyond become ever happy, in a graded hierarchy. For the tranquil, gracious, learned (śrotriya) one who is dispassionate toward those states, the bliss that is his own nature shines by itself in the Supreme, as it were. Indeed, speech proceeds by relying on some basis/occasion; from that (Supreme) words return, because bases are absent. In the attributeless supreme bliss, how could speech proceed? Therefore this mind is subtle, withdrawn from all objects—(and from it arise) the ear, skin, eye, and the other sense-organs and organs of action…

Ānanda/Brahman as the ground of life; Abhaya (fearlessness) through Advaita; language-mind limitation (yato vāco nivartante)Mahavakya: Closely supports ‘Ayam Ātmā Brahma’ and ‘Aham Brahmāsmi’: fearlessness and immortality arise when the Self is known as non-different from Brahman; difference (bheda) yields fear.Krishna YajurvedaChandas: Mixed śloka (predominantly Anuṣṭubh-like) with later philosophical diction; not strictly Vedic meter.