Katharudra
ब्रह्मभूतात्मनस्तस्मादेतस्माच्छक्तिमिश्रितात् ।
अपञ्चीकृत आकाशसंभूतो रज्जुसर्पवत् ॥
आकाशाद्वायुसंज्ञस्तु स्पर्शोऽपञ्चीकृतः पुनः ।
वायोरग्निस्तथा चाग्नेराप अद्भ्यो वसुन्धरा ॥
तानि भूतानि सूक्ष्माणि पञ्चीकृत्येश्वरस्तदा ।
तेभ्य एव विसृष्टं तद्ब्रह्माण्डादि शिवेन ह ॥
ब्रह्माण्डस्योदरे देवा दानवा यक्षकिन्नराः ।
मनुष्याः पशुपक्ष्याद्यास्तत्तत्कर्मानुसारतः ॥
ब्रह्म-भूत-आत्मनः । तस्मात् । एतस्मात् । शक्तिः-मिश्रितात् ।
अपञ्चीकृतः । आकाशः-सम्भूतः । रज्जु-सर्प-वत् ॥
आकाशात् । वायु-संज्ञः । तु । स्पर्शः । अपञ्चीकृतः । पुनः ।
वायोः । अग्निः । तथा । च । अग्नेः । आपः । अद्भ्यः । वसुन्धरा ॥
तानि । भूतानि । सूक्ष्माणि । पञ्चीकृत्य । ईश्वरः । तदा ।
तेभ्यः । एव । विसृष्टम् । तत् । ब्रह्माण्ड-आदि । शिवेन । ह ॥
ब्रह्माण्डस्य । उदरे । देवाः । दानवाः । यक्ष-किन्नराः ।
मनुष्याः । पशु-पक्षि-आद्याः । तत्-तत्-कर्म-अनुसारतः ॥
brahmabhūtātmanas tasmād etasmāc chakti-miśritāt |
apañcīkṛta ākāśa-sambhūto rajju-sarpavat ||
ākāśād vāyu-saṃjñas tu sparśo’pañcīkṛtaḥ punaḥ |
vāyor agnis tathā cāgner āpa adbhyō vasundharā ||
tāni bhūtāni sūkṣmāṇi pañcīkṛtyeśvaras tadā |
tebhya eva visṛṣṭaṃ tad brahmāṇḍādi śivena ha ||
brahmāṇḍasyodare devā dānavā yakṣa-kinnarāḥ |
manuṣyāḥ paśu-pakṣy-ādyās tat-tat-karma-anusarataḥ ||
ブラフマンとなったその自己より、シャクティ(力)と混じ合うこの原理から、五分化されていない虚空が生ずる――縄を蛇と誤認するがごとく。虚空より再び、五分化されていない触、すなわち風が起こり、風より火、火より水、水より地が生ずる。ついで主はそれら微細なる元素を五分化して、それらから宇宙を、梵卵を初めとして、シヴァによって顕現させる。梵卵の胎内には、神々、阿修羅、ヤクシャとキンナラ、人間、また獣や鳥などが、それぞれの業に随って存在する。
From that Self which has become Brahman, from this (principle) mixed with Power (śakti), the unquintuplicated ether arises—like a rope (mistaken for) a snake. From ether, again, the unquintuplicated touch, called air, (arises); from air, fire; from fire, waters; from waters, earth. Then the Lord, having quintuplicated those subtle elements, from them indeed projects this (universe), beginning with the cosmic egg, by Śiva. In the womb of the cosmic egg are gods, demons, yakṣas and kinnaras, humans, and animals and birds, etc., according to their respective actions.