Katharudra
तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखाद्वयम् ।
संसारे च गुहावाच्ये मायाज्ञानादिसंज्ञके ॥
निहितं ब्रह्म यो वेद परमे व्योम्नि संज्ञिते ।
सोऽश्नुते सकलान्कामान्क्रमेणैव द्विजोत्तमः ॥
प्रत्यगात्मानमज्ञानमायाशक्तेश्च साक्षिणम् ।
एकं ब्रह्माहमस्मीति ब्रह्मैव भवति स्वयम् ॥
तत्-विद्या-विषयम् । ब्रह्म । सत्य-ज्ञान-सुख-अद्वयम् ।
संसारे । च । गुहा-वाच्ये । माया-ज्ञान-आदि-संज्ञके ॥
निहितम् । ब्रह्म । यः । वेद । परमे । व्योम्नि । संज्ञिते ।
सः । अश्नुते । सकलान् । कामान् । क्रमेण । एव । द्विज-उत्तमः ॥
प्रत्यक्-आत्मानम् । अज्ञान-माया-शक्तेः । च । साक्षिणम् ।
एकम् । ब्रह्म । अहम् । अस्मि । इति । ब्रह्म । एव । भवति । स्वयम् ॥
tadvidyāviṣayaṃ brahma satyajñānasukhādvayam |
saṃsāre ca guhāvācye māyājñānādisaṃjñake ||
nihitaṃ brahma yo veda parame vyomni saṃjñite |
so'śnute sakalān kāmān krameṇaiva dvijottamaḥ ||
pratyagātmānam ajñānamāyāśakteś ca sākṣiṇam |
ekaṃ brahmāham asmīti brahmaiva bhavati svayam ||
ブラフマン—不二にして、その本性は真実・知・至福—こそがその(最高の)智の対象である。しかもそれは、マーヤー、無明などと名づけられる輪廻の「洞窟」と呼ばれるところに秘められていると言われる。最高の「空(虚空)」と称されるところに隠れたブラフマンを知る二度生まれの最勝者は、順次にあらゆる願いを享受する。無明とマーヤーの力の証人として内なる自己を知り、「我は唯一のブラフマンなり」と悟るとき、彼は自らブラフマンそのものとなる。
Brahman—non-dual, whose nature is reality, knowledge, and bliss—is the object of that (highest) knowledge; and (it is spoken of as) hidden in saṃsāra, in the ‘cave’ so called, designated as māyā, ignorance, and the like. The best of the twice-born who knows the Brahman hidden in the supreme ‘space’ so named, enjoys all desires, indeed, in due order. (Knowing) the inner Self as the witness of ignorance and the power of māyā, (and realizing) ‘I am the one Brahman,’ he himself becomes Brahman alone.