Kaivalya
पुनश्च जन्मान्तरकर्मयोगात् स एव जीवः स्वपिति प्रबुद्धः ।
पुरत्रये क्रीडति यश्च जीवस् ततस्तु जातं सकलं विचित्रम् ।
आधारमानन्दमखण्डबोधं यस्मिँल्लयं याति पुरत्रयं च ॥
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापश्च पृथ्वी विश्वस्य धारिणी ॥१४-१५॥
पुनः-च । जन्म-अन्तर-कर्म-योगात् । सः । एव । जीवः । स्वपिति । प्रबुद्धः ।
पुर-त्रये । क्रीडति । यः-च । जीवः । ततः-तु । जातम् । सकलम् । विचित्रम् ।
आधारम् । आनन्दम् । अखण्ड-बोधम् । यस्मिन् । लयम् । याति । पुर-त्रयम् । च ।
एतस्मात् । जायते । प्राणः । मनः । सर्व-इन्द्रियाणि । च ।
खम् । वायुः । ज्योतिः । आपः । च । पृथ्वी । विश्वस्य । धारिणी ।
punaś ca janmāntara-karma-yogāt sa eva jīvaḥ svapiti prabuddhaḥ |
pura-traye krīḍati yaś ca jīvas tatas tu jātaṃ sakalaṃ vicitram |
ādhāram ānandam akhaṇḍa-bodhaṃ yasmiṁllayaṃ yāti pura-trayaṃ ca |
etasmāj jāyate prāṇo manaḥ sarvendriyāṇi ca |
khaṃ vāyur jyotir āpaś ca pṛthivī viśvasya dhāriṇī ||14-15||
そして再び、他の生における業との結びつきによって、まさにそのジーヴァは眠り、また目覚める。「三つの都」において戯れるジーヴァ—そこから実に、この多彩なる一切の世界が生じる。それは支えであり、アーナンダであり、分割されぬ覚知であって、その中に三つの都もまた帰滅する。そこからプラーナ、心、そしてすべての感官が生じ、虚空・風・火・水・地—宇宙を支えるもの—が生起する。
And again, through the conjunction with actions from other births, that very jīva sleeps and wakes. The jīva that plays in the three cities—from it indeed this entire variegated (world) is born. (That) support, bliss, undivided consciousness, in which the three cities also go to dissolution. From this arise prāṇa, mind, and all the senses; ether, air, fire, waters, and earth, the supporter of the universe.