Brahmavidya
ॐ इत्येकाक्षरं ब्रह्म यदुक्तं ब्रह्मवादिभिः । शरीरं तस्य वक्ष्यामि स्थानं कालत्रयं तथा ॥२॥
ॐ । इति । एक-अक्षरम् । ब्रह्म । यत्-उक्तम् । ब्रह्म-वादिभिः । शरीरम् । तस्य । वक्ष्यामि । स्थानम् । काल-त्रयम् । तथा ॥ २ ॥
oṃ ity ekākṣaraṃ brahma yad uktaṃ brahmavādibhiḥ | śarīraṃ tasya vakṣyāmi sthānaṃ kālatrayaṃ tathā ||2||
「オーム」—一つの音節—はブラフマンである、とブラフマンを説く者たちは語った。私はその身体、その座(所依)、そしてまた時間の三相を宣言しよう。
‘Oṃ’—the one syllable—is Brahman, as has been stated by the expounders of Brahman. I shall declare its body, its locus, and likewise the triad of time.