Brahmavidya
कांस्यघण्टानिनादस्तु यथा लीयति शान्तये । ओङ्कारस्तु तथा योज्यः शान्तये सर्वमिच्छता ॥ यस्मिन्विलीयते शब्दस्तत्परं ब्रह्म गीयते । धियं हि लीयते ब्रह्म सोऽमृतत्वाय कल्पते ॥१२–१३॥
कांस्य-घण्टा-निनादः । तु । यथा । लीयति । शान्तये । ओङ्कारः । तु । तथा । योज्यः । शान्तये । सर्वम् । इच्छता । यस्मिन् । विलीयते । शब्दः । तत् । परम् । ब्रह्म । गीयते । धियम् । हि । लीयते । ब्रह्म । सः । अमृतत्वाय । कल्पते ।
kāṃsyaghaṇṭāninādastu yathā līyati śāntaye | oṅkārastu tathā yojyaḥ śāntaye sarvamicchatā || yasmin vilīyate śabdastat paraṃ brahma gīyate | dhiyaṃ hi līyate brahma so'mṛtatvāya kalpate ||12–13||
青銅の鐘の余韻が静寂へと溶けて安らぎに至るように、全き寂静を願う者はオーンカーラをそのように修すべきである。音が溶け入るそのものが至上のブラフマンと讃えられる。まことに、心がブラフマンに溶けるとき、人は不死にふさわしくなる。
Just as the resonance of a bronze bell subsides into silence, so should the Oṅkāra be applied by one who desires complete peace. That in which sound dissolves is sung as the supreme Brahman; indeed, when the mind dissolves into Brahman, one becomes fit for immortality.