HomeUpanishadsArunikaVerse 5

Verse 5

Arunika

स खल्वेवं यो विद्वान् सोपनयनादूर्ध्वमेतानि प्राग्वा त्यजेत्। पितरं पुत्रम् अग्निम् उपवीतं कर्म कलत्रं चान्यदपीह यत्। यतयो भिक्षार्थं ग्रामं प्रविशन्ति पाणिपात्रम् उदरपात्रं वा। ॐ हि ॐ हि ॐ हीत्येतदुपनिषदं विन्यसेत्। खल्वेतदुपनिषदं विद्वान् य एवं वेद— पालाशं बैल्वमाश्वत्थमौदुम्बरं दण्डं मौञ्जीं मेखलां यज्ञोपवीतं च त्यक्त्वा शूरो य एवं वेद।

तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः।

दिवीव चक्षुराततम्।

तद्विप्रासो विपन्यवो जागृवांसः समिन्धते।

विष्णोर्यत्परमं पदमिति।

एवं निर्वाणानुशासनं वेदानुशासनं वेदानुशासनमिति॥५॥

सः । खलु । एवम् । यः । विद्वान् । स-उपनयनात् । ऊर्ध्वम् । एतानि । प्राक् । वा । त्यजेत् । पितरम् । पुत्रम् । अग्निम् । उपवीतम् । कर्म । कलत्रम् । च । अन्यत् । अपि । इह । यत् । यतयः । भिक्षार्थम् । ग्रामम् । प्रविशन्ति । पाणि-पात्रम् । उदर-पात्रम् । वा । ॐ । हि । ॐ । हि । ॐ । हि । इति । एतत् । उपनिषदम् । विन्यसेत् । खलु । एतत् । उपनिषदम् । विद्वान् । यः । एवम् । वेद । पालाशम् । बैल्वम् । अश्वत्थम् । औदुम्बरम् । दण्डम् । मौञ्जीम् । मेखलाम् । यज्ञोपवीतम् । च । त्यक्त्वा । शूरः । यः । एवम् । वेद । तत् । विष्णोः । परमम् । पदम् । सदा । पश्यन्ति । सूरयः । दिवि । इव । चक्षुः । आततम् । तत् । विप्रासः । विपन्यवः । जागृवांसः । समिन्धते । विष्णोः । यत् । परमम् । पदम् । इति । एवम् । निर्वाण-अनुशासनम् । वेद-अनुशासनम् । वेद-अनुशासनम् । इति ॥५॥

sa khalv evaṁ yo vidvān sopanayanād ūrdhvam etāni prāg vā tyajet | pitaraṁ putram agnim upavītaṁ karma kalatraṁ cānyad apīha yat | yatayo bhikṣārthaṁ grāmaṁ praviśanti pāṇipātram udarapātraṁ vā | oṁ hi oṁ hi oṁ hīty etad upaniṣadaṁ vinyaset | khalv etad upaniṣadaṁ vidvān ya evaṁ veda— pālāśaṁ bailvam āśvattham audumbaraṁ daṇḍaṁ mauñjīṁ mekhalāṁ yajñopavītaṁ ca tyaktvā śūro ya evaṁ veda |

tad viṣṇoḥ paramaṁ padaṁ sadā paśyanti sūrayaḥ |

divīva cakṣur ātatam |

tad viprāso vipanyavo jāgṛvāṁsaḥ samindhate |

viṣṇor yat paramaṁ padam iti |

evaṁ nirvāṇānuśāsanaṁ vedānuśāsanaṁ vedānuśāsanam iti ||5||

まことに、このように教えられた知者は、ウパナヤナの後、あるいはそれ以前であっても、これらを捨てるべし—父、子、火、聖紐、儀礼行為、妻、そしてここにある他の一切を。遊行者(ヤティ)は施しのために村に入り、手を鉢とし、あるいは腹を鉢とする。「オーム・ヒ、オーム・ヒ、オーム・ヒ」—このウパニシャッドを安置すべし。まことに、このウパニシャッドをかく知る者は、パラーシャ、ビルヴァ、アシュヴァッタ、またはウドゥンバラの木の杖、ムンジャの帯、聖紐を捨て、かく知る勇者として進む。 「ヴィシュヌの至上の歩みを、賢者は常に観る。 天に広がる眼のごとく。 その歩みを、霊感ある者、洞察ある者、目覚めた者が燃え立たせる— ヴィシュヌの至上の歩みを。」 これが涅槃の教誡、ヴェーダの教誡、ヴェーダの教誡である。

Indeed, the knower who is thus (instructed) should abandon these either after the initiation (upanayana) or even earlier: father, son, fire, sacred thread, ritual action, wife, and whatever else is here. Renouncers enter a village for alms with the hand as bowl or the belly as bowl. He should set down this Upaniṣad: “Oṁ hi, Oṁ hi, Oṁ hi.” Indeed, knowing this Upaniṣad thus, having abandoned a staff of palāśa, bilva, aśvattha, or udumbara wood, the muñja girdle, and the sacred thread, the hero who knows thus (proceeds). ‘That highest step of Viṣṇu the seers always behold, like an eye extended in heaven. That (step) the inspired, the insightful, the wakeful kindle— that highest step of Viṣṇu.’ Thus is the instruction on nirvāṇa; the instruction of the Veda, the instruction of the Veda.

Nirvāṇa/mokṣa through radical tyāga and Upaniṣadic knowledge; ‘Viṣṇu’s highest padam’ as the supreme stateMahavakya: Indirect: culminates in liberation-teaching rather than explicit mahāvākya; compatible with ‘tat tvam asi’/‘ahaṁ brahmāsmi’ as the realized ‘highest state’.YajurKrishna Yajurveda (Taittirīya tradition; Sannyāsa/Āruṇi corpus) ShakhaChandas: Prose with embedded Ṛgvedic verse (Triṣṭubh in RV 1.22.20-21 style citation)