आयु॑र्य॒ज्ञेन॑ कल्पतां प्रा॒णो य॒ज्ञेन॑ कल्पतां॒ चक्षु॑र्य॒ज्ञेन॑ कल्पतातां॒ᳪ श्रोत्रं॑ य॒ज्ञेन॑ कल्पतां॒ पृ॒ष्ठं य॒ज्ञेन॑ कल्पतां॒ य॒ज्ञो य॒ज्ञेन॑ कल्पताम् । प्र॒जाप॑तेः प्र॒जा अ॑भूम॒ स्व॒र्देवा अगन्मा॒मृता॑ अभूम
ā́yur yajñéna kalpatāṃ prāṇó yajñéna kalpatāṃ cákṣur yajñéna kalpatātāṃ śrótraṃ yajñéna kalpatāṃ pṛṣṭháṃ yajñéna kalpatāṃ yajñó yajñéna kalpatām | prajā́pateḥ prajā́ abhūma svàrdevā́ aganmā́mṛtā abhūma
寿命が祭儀によって整えられますように。息(プラーナ)が祭儀によって整えられますように。視力が祭儀によって整えられますように。聴力が祭儀によって整えられますように。背が祭儀によって整えられますように。まことに、祭儀そのものが祭儀によって整えられますように。われらはプラジャーパティの子孫となった。天界へと至った。われらは不死となった。
आयुः । यज्ञेन । कल्पताम् । प्राणः । यज्ञेन । कल्पताम् । चक्षुः । यज्ञेन । कल्पताम् । श्रोत्रम् । यज्ञेन । कल्पताम् । पृष्ठम् । यज्ञेन । कल्पताम् । यज्ञः । यज्ञेन । कल्पताम् । प्रजापतेः । प्रजाः । अभूम । स्वः-देवाः । अगन्म । अमृताः । अभूम ।