इन्द्र॑श्च स॒म्राड्वरु॑णश्च॒ राजा तौ ते भ॒क्षं च॑क्रतु॒रग्र॑ ए॒तम् । तयो॑र॒हमनु॑ भ॒क्षं भ॑क्षयामि॒ वाग्दे॒वी जु॑षा॒णा सोम॑स्य तृप्यतु स॒ह प्रा॒णेन॒ स्वाहा॑
índraś ca samrā́ḍ váruṇaś ca rājā táu te bhákṣaṃ cakratúr ágre etám | táyor ahám ánu bhákṣaṃ bhakṣayāmi vā́gdevī júṣāṇā sómasya tṛ́pyatu sahá prāṇéna svā́hā
インドラは普遍の主権者、ヴァルナは王。その二神は初めに汝のためこの分け前を作り定めた。彼らの分け前に従い、われもまたこの分け前を食す。言語の女神ヴァーク(Vāk-devī)は喜びつつ、息(プラーナ)とともにソーマによって満ち足りよ——スヴァーハー(Svāhā)!
इन्द्रः । च । सम्राट् । वरुणः । च । राजा । तौ । ते । भक्षम् । चक्रतुः । अग्रे । एतम् । तयोः । अहम् । अनु । भक्षम् । भक्षयामि । वाक्-देवी । जुषाणा । सोमस्य । तृप्यतु । सह । प्राणेन । स्वाहा