दे॒वकृ॑त॒स्यैन॑सोऽव॒यज॑नमसि मनु॒ष्य॒कृत॒स्यैन॑सोऽव॒यज॑नमसि पि॒तृकृ॑त॒स्यैन॑सोऽव॒यज॑नमस्या॒त्मकृ॑तस्यैनसोऽव॒यज॑नम॒स्येन॑स एनसोऽव॒यज॑नमसि । यच्चा॒हमेनो॑ वि॒द्वाँश्च॒कार॒ यच्चावि॑द्वाँ॒स्तस्य॒ सर्वस्यैन॑सोऽव॒यज॑नमसि
devakṛ́tasyaínasó ’vayájanam asi manuṣyá-kṛ́tasyaínasó ’vayájanam asi pitṛ́-kṛ́tasyaínasó ’vayájanam asy ātmá-kṛtasyaínasó ’vayájanam asy énasa énaso ’vayájanam asi | yác cāhám éno vidvā́ṃś cakā́ra yác cāvídvāṃs tásya sárvasyáinasó ’vayájanam asi
汝は神々のなした罪の贖罪(除罪)である。汝は人のなした罪の贖罪である。汝は祖霊(ピトリ)らのなした罪の贖罪である。汝は自己のなした罪の贖罪である。汝は罪の、罪の贖罪である。われが犯したいかなる罪も——知ってなしたものも、知らずになしたものも——その一切の罪に対し、汝は贖罪である。
देव-कृतस्य । एनसः । अव-यजनम् । असि । मनुष्य-कृतस्य । एनसः । अव-यजनम् । असि । पितृ-कृतस्य । एनसः । अव-यजनम् । असि । आत्म-कृतस्य । एनसः । अव-यजनम् । असि । एनसः । एनसः । अव-यजनम् । असि । यत्-च । अहम् । एनः । विद्वान् । चकार । यत्-च । अविद्वान् । तस्य । सर्वस्य । एनसः । अव-यजनम् । असि