अग्ना३इ॒ पत्नी॑वन्त्स॒जूर्दे॒वेन॒ त्वष्ट्रा॒ सोमं॑ पिब॒ स्वाहा॑ । प्र॒जाप॑ति॒र्वृषा॑ऽसि रेतो॒धा रेतो॒ मयि॑ धेहि प्र॒जाप॑तेस्ते॒ वृष्णो॑ रेतो॒धसो॑ रेतो॒धाम॑शीय
agne patnī́vant sajū́r devéna tváṣṭrā sómaṃ piba svā́hā | prajā́patir vṛ́ṣā ’si retodhā́ reto máyi dhehi prajā́pates te vṛ́ṣṇo retodháso retodhā́m aśīya |
アグニよ、汝は妃を伴い、神トヴァシュトリと和合して、このソーマを飲め――スヴァーハー!汝はプラジャーパティ、生殖の雄牛、種子を置く者である。わたしのうちに種子を置け。プラジャーパティの雄牛にして種子を置く者なる汝より、わたしはその種子の安置を得ん。
अग्ने । पत्नी-वन्त् । स-जूः । देवेन त्वष्ट्रा । सोमम् पिब । स्वाहा । प्रजापतिः । वृषा असि । रेतः-धा: । रेतः मयि धेहि । प्रजापतेः ते । वृष्णः । रेतः-धसः । रेतः-धाम् अशीय ।