इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो॑भि॒राग॑तम् । इन्द॑वो वामु॒शन्ति॒ हि । उ॒प॒या॒मगृ॑हीतोऽसि वा॒यव॑ इन्द्रवा॒युभ्यां॑ त्वै॒ष ते॒ योनि॑: स॒जोषो॑भ्यां त्वा ।
indrávāyū imé sutā́ úpa práyobhir ā́gatam | índavo vā́m uśánti hí | upayā́magṛhīto ’si vāyava indrāvāyúbhyāṃ tvā́ eṣá te yóniḥ sajóṣobhyaṃ tvā́ |
インドラとヴァーユよ、滋養の供物とともに、これら搾り出されたソーマのもとへ来たれ。ソーマの滴はまことに汝らを慕う。汝はウパヤーマ(Upayāma、近取の献)によって取られた。ヴァーユとインドラ=ヴァーユのために汝を。これぞ汝の胎(yoni)。和合する二神とともに汝を。
इन्द्र-वायू इति । इमे । सुताः । उप । प्रयः-भिः । आ । गतम् । इन्दवः । वाम् । उशन्ति । हि । उप-याम-गृहीतः । असि । वायो इति । इन्द्र-वायुभ्याम् । त्वा । एषः । ते । योनिः । स-जोषोभ्याम् । त्वा ।