म॒हाँ२ इन्द्रो॒ य ओज॑सा प॒र्जन्यो॑ वृष्टि॒माँ२ इ॑व । स्तोमै॑र्व॒त्सस्य॑ वावृधे । उ॒प॒या॒मगृ॑हीतोऽसि महे॒न्द्राय॑ त्वै॒ष ते॒ योनि॑र्महे॒न्द्राय॑ त्वा
mahā́ṃ̐ índro yá ójasā parjányo vṛṣṭimā́ṃ̐ iva | stómair vatsásya vāvṛdhe | upayā́ma-gṛhīto ’si mahéndrāya tvaiṣá te yóniḥ mahéndrāya tvā
偉大なるはインドラ。彼はその威力により、雨に富むパルジャニヤ(Parjanya)のごとし。讃歌によって増し育ち、子牛が乳養により育つがごとし。 「汝はウパヤーマ(upayāma)によって取られ、大いなるインドラのためにある。これぞ汝の胎処(yoni)—大いなるインドラのために汝を。」
म॒हान् । इन्द्रः॑ । यः । ओज॑सा । प॒र्जन्यः॑ । वृष्टि॒मान् । इ॒व॒ । स्तोमैः॑ । व॒त्सस्य॑ । वा॒वृ॒धे॒ । उ॒प॒या॒म-गृ॑हीतः । अ॒सि॒ । महे॒न्द्राय॑ । त्वा॒ । ए॒षः । ते॒ । योनि॑ः । महे॒न्द्राय॑ । त्वा॒