उ॒प॒या॒मगृ॑हीतो॒ऽसीन्द्रा॑य त्वा बृ॒हद्व॑ते॒ वय॑स्वत उक्था॒व्यं॒ गृह्णामि । यत्त॑ इन्द्र बृ॒हद्वय॒स्तस्मै॑ त्वा॒ विष्ण॑वे त्वै॒ष ते॒ योनि॑रु॒क्थेभ्य॑स्त्वा दे॒वेभ्य॑स्त्वा देवा॒व्यं॒ य॒ज्ञस्यायु॑षे गृह्णामि
upayā́ma-gṛhīto ’sī́ndrāya tvā bṛhádvate váyasvata ukthāvyàṃ gṛhṇāmi | yát ta indra bṛhádvayaḥ tásmai tvā víṣṇave tvā eṣá te yónir ukthébhyaḥ tvā devébhyaḥ tvā devāvyàṃ yajñásyā́yuṣe gṛhṇāmi
汝はウパヤーマ(Upayāma)によって取られた。インドラのために汝を――偉大なる者、活力ある者、ウクタ(Uktha)にふさわしき者として――我は取る。インドラよ、汝の大いなる生命力(vayas)があるがゆえに、ゆえにヴィシュヌのために汝を取る。これぞ汝の胎(yoni)である。諸ウクタのために汝を、諸神々のために汝を――神にふさわしきもの(devāvyam)として――祭の寿命(āyus)のために我は取る。
उपयाम-गृहीतः । असि । इन्द्राय । त्वा । बृहद्वते । वयस्वते । उक्थाव्यम् । गृह्णामि । यत् । ते । इन्द्र । बृहद्वयः । तस्मै । त्वा । विष्णवे । त्वा । एषः । ते । योनिः । उक्थेभ्यः । त्वा । देवेभ्यः । त्वा । देवाव्यम् । यज्ञस्य । आयुषे । गृह्णामि ।