वाचं॑ ते शुन्धामि प्रा॒णं ते॑ शुन्धामि चक्षु॑स्ते शुन्धामि श्रोत्रं॑ ते शुन्धामि नाभिं॑ ते शुन्धामि मेढ्रं॑ ते शुन्धामि पा॒युं ते॑ शुन्धामि च॒रित्राँ॑स्ते शुन्धामि ।
vā́caṃ te śundhāmi prāṇáṃ te śundhāmi cákṣus te śundhāmi śrótraṃ te śundhāmi nā́bhiṃ te śundhāmi méḍhraṃ te śundhāmi pāyúṃ te śundhāmi carítrāṃs te śundhāmi |
汝の言葉を清める。汝の息(プラーナ prāṇa)を清める。汝の眼を清める。汝の耳を清める。汝の臍を清める。汝の生殖の力を清める。汝の排泄口を清める。汝の歩みと行いを清める。
वाचम् । ते । शुन्धामि । प्राणम् । ते । शुन्धामि । चक्षुः । ते । शुन्धामि । श्रोत्रम् । ते । शुन्धामि । नाभिम् । ते । शुन्धामि । मेढ्रम् । ते । शुन्धामि । पायुम् । ते । शुन्धामि । चरित्रान् । ते । शुन्धामि ।