होता॑ यक्ष॒द्दैव्या॒ होता॑रा भि॒षजा॒ सखा॑या ह॒विषेन्द्रं॑ भिषज्यतः । क॒वी देवौ॒ प्रचे॑तसा॒विन्द्रा॑य धत्त इन्द्रि॒यं वी॒तामाज्य॑स्य॒ होत॒र्यज॑
hótā yákṣad daivyā́ hótārā bhiṣájā sákhāyā havíṣéndraṃ bhiṣajyátaḥ | kavī́ deváu prá·cetasāv índrāya dhatta indriyáṃ vītā́m ā́jyasya hótar yája
ホートリ(Hotṛ)は献供せよ。二人の天なるホートリ(daivyā hotārā)、友にして医(bhiṣajā sakhāyā)は、供物(havis)によってインドラを癒やす。二人のカヴィ(kavī、詩聖)、明知の神々(pracetasa)は、インドラのためにその主権の力(indriya)を授け置く。酥油(ājya)を享受せよ——ホートリよ、祭れ。
होता । यक्षत् । दैव्या । होतारा । भिषजा । सखाया । हविषा । इन्द्रम् । भिषज्यतः । कवी इति । देवौ । प्र-चेतसा । इन्द्राय । धत्तः । इन्द्रियम् । वीताम् । आज्यस्य । होतः । यज ।