दे॒वी ऊ॒र्जाहु॑ती॒ दुघे॑ सु॒दु॒घे॒ पय॒सेन्द्रं॑ वयो॒धसं॑ दे॒वी दे॒वम॑वर्धताम् । प॒ङ्क्त्या छन्द॑सेन्द्रि॒यᳪ शु॒क्रमिन्द्रे॒ वयो॒ दध॑द्वसु॒वने॑ वसु॒धेय॑स्य वीतां॒ यज॑
devī́ ūrjāhutī́ dúghe sudúghe páyasā índraṃ vayo̱dhásaṃ devī́ devám avardhatām | paṅktyā́ chándasendriyáṃ śukrám índre̱ vayo̱ dádhad vasuváne vasudhéyasya vītā́ṃ yája
女神ウールジャーフティー(Ūrjāhutī、滋養の供献)、乳を搾る者、よく搾る者、乳によって——活力を授ける者たち——この神々しき者たちがインドラを増大せしめよ。パンクティ(Paṅkti)の韻律によって、インドラの威力を据える:輝き(śukra)と活力とをインドラに置く。ヴァス(Vasus)を得るため、富の確立のために——ここに来たりて享受せよ。供犠せよ。
दे॒वी । ऊ॒र्जा॒हु॒ती॒ । दुघे॑ । सु॒दु॒घे॒ । पय॑सा । इन्द्र॑म् । व॒यो॒धसम् । दे॒वी । दे॒वम् । अ॒व॒र्ध॒ता॒म् । प॒ङ्क्त्या । छन्द॑सा । इ॒न्द्रि॒यम् । शु॒क्रम् । इन्द्रे॑ । व॒यः । दध॑त् । व॒सु॒वने॑ । व॒सु॒धेय॑स्य । वी॒ता॒म् । यज॑