यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दक्षं॒ दधा॑ना ज॒नय॑न्तीर्य॒ज्ञम् । यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त् कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम
yáś cid ā́po mahínā páry apaśyad dákṣaṃ dádhānā janáyantīr yajñám | yó devéṣv ádhi devá éka āsī́t kásmai devā́ya havíṣā vidhema
まことに、彼はその偉大なる力によって水(Āpas)を遍く見渡した。水は力(dakṣa)を宿し、祭祀(yajña)を生み出す。神々の中にあって、ただ一柱の神として至上に在った彼に——供物(havis)をもって、いかなる神にわれらは祭祀を捧げ奉るべきか。
यः । चित् । आपः । महिना । परि-अपश्यत् । दक्षम् । दधानाः । जनयन्तीः । यज्ञम् । यः । देवेषु । अधि । देवः । एकः । आसीत् । कस्मै । देवाय । हविषा । विधेम