ति॒स्रो दे॒वीर्ह॒विषा॒ वर्ध॑माना॒ इन्द्रं॑ जुषा॒णा जन॑यो॒ न पत्नी॑ः । अच्छि॑न्नं॒ तन्तुं॒ पय॑सा॒ सर॑स्व॒तीडा॑ दे॒वी भार॑ती वि॒श्वतू॑र्तिः
tisró devī́r havíṣā várdhamānā índraṃ juṣāṇā jánayo ná pátnīḥ | ácchinnaṃ tántuṃ páyasā sárasvatī́ḍā devī́ bhā́ratī viśvátūrtiḥ ||
三女神は供物によって増し、インドラを喜んで受け入れる——母のごとく、妻のごとく——乳の滋養をもって断たれぬ糸を保つ。サラスヴァティー、女神イダー(Idā)、そしてバ―ラティー(Bhāratī)、万方を征する者。
तिस्रः । देवीः । हविषा । वर्धमानाः । इन्द्रम् । जुषाणाः । जनयः । न । पत्नीः । अच्छिन्नम् । तन्तुम् । पयसा । सरस्वती । इडा । देवी । भारती । विश्वतूर्तिः