उ॒षासा॒नक्ता॑ बृह॒ती बृ॒हन्तं॒ पय॑स्वती सु॒दुघे॒ शूर॒मिन्द्र॑म् । तन्तुं॑ त॒तं पेश॑सा सं॒वय॑न्ती दे॒वानां॑ दे॒वं य॑जतः सुरु॒क्मे
uṣāsā náktā bṛhatī́ bṛhántaṃ páyasvatī sudúghe śū́ram índram | tántuṃ tatáṃ péśasā saṃváyantī devā́nāṃ deváṃ yajataḥ surúkṣme ||
暁と夜——偉大なる二女神、乳に富み、よく乳を与える者——は、強き英雄インドラのもとへ赴く。彼女らは麗しき技をもって張り渡された糸を織り合わせる——神々の神、崇めて祭るべき者、輝く装飾を帯びる者を。
उषासा । नक्ता । बृहती । बृहन्तम् । पयस्वती । सुदुघे । शूरम् । इन्द्रम् । तन्तुम् । ततम् । पेशसा । संवयन्ती । देवानाम् । देवम् । यजतः । सुरुक्ष्मे