ई॒डि॒तो दे॒वैर्हरि॑वाँ२ अभि॒ष्टिरा॒जुह्वा॑नो ह॒विषा॒ शर्ध॑मानः । पु॒र॒न्द॒रो गो॑त॒भिद्वज्र॑बाहु॒रा या॑तु य॒ज्ञमुप॑ नो जुषा॒णः
īḍitó deváir harivā́n abhíṣṭir ā́juhvāno havíṣā śárdhamānaḥ | purandará gotabhíd vajrabāhur ā́ yātu yajñám úpa no juṣā́ṇaḥ ||
神々に讃えられ、栗毛の馬を駆る者、われらの救護者。供物をもって献じ、力を増しつつある者——城砦を破る者、牛囲いを裂く者、雷霆の腕を持つ者——その者がこの祭祀へ、喜び受けつつ、われらのもとへ来たれ。
ईडितः । देवैः । हरिवान् । अभिष्टिः । आजुह्वानः । हविषा । शर्धमानः । पुरन्दरः । गोत-भित् । वज्र-बाहुः । आ । यातु । यज्ञम् । उप । नः । जुषाणः ।