बृ॒हदिन्द्रा॑य गायत॒ मरु॑तो वृत्र॒हन्त॑मम् । येन॒ ज्योति॒रज॑नयन्नृता॒वृधो॑ दे॒वं दे॒वाय॒ जागृ॑वि
bṛhád índrāya gāyata máruto vṛtrahántamam | yéna jyótir ájanayan ṛtā́vṛdho deváṃ devā́ya jā́gṛvi ||
インドラに向かって、その偉大なる讃歌を歌え。マルトたちよ、最もヴリトラを屠る者に歌え――彼によって、ṛta(宇宙の秩序)により栄える者らは光明を生み出した。目覚めたる神を、神のために讃え歌え。
बृ॒हत् । इन्द्रा॑य । गायत । मरु॑तः । वृत्र॒-हन्त॑मम् । येन । ज्योतिः । अजनयन् । ऋता॒-वृधः॑ । दे॒वम् । दे॒वाय॑ । जागृ॑वि ।