अङ्गा॑न्या॒त्मन् भि॒षजा॒ तद॒श्विना॒त्मान॒मङ्गै॒: सम॑धा॒त् सर॑स्वती । इन्द्र॑स्य रू॒पᳪ श॒तमा॑न॒मायु॑श्च॒न्द्रेण॒ ज्योति॑र॒मृतं॒ दधा॑नाः
aṅgā́ny ātmán bhiṣájā́ tád aśvínātmā́nam aṅgáiḥ sámadhāt sárasvatī | índrasya rūpáṃ śatámānam ā́yuś candréṇa jyótir amṛtáṃ dádhānāḥ
諸肢よ、自己(アートマン)よ――それらは医師なるアシュヴィン(Aśvin)双神が回復させた。サラスヴァティー(Sarasvatī)は自己を諸肢とともに整え、結び合わせた。インドラ(Indra)の姿を帯び、百倍に満ちた寿命を具え、月(Candra)とともに光明を据え、不死の精髄(amṛta)を保持する。
अङ्गा॑नि । आ॒त्मन् । भि॒षजा॑ । तत् । अ॒श्विना॑ । आ॒त्मान॑म् । अङ्गैः॑ । सम्-आ॑-धा॒त् । सर॑स्वती । इन्द्र॑स्य । रू॒पम् । श॒त-मा॑नम् । आयुः॑ । च॒न्द्रेण॑ । ज्योतिः॑ । अ॒मृत॑म् । दधा॑नाः