तद॑स्य रू॒पम॒मृत॒ᳪ शची॑भिस्त॒स्रो द॑धुर्दे॒वता॑: सᳪररा॒णाः । लोमा॑नि॒ शष्पै॑र्बहु॒धा न तोक्म॑भि॒स्त्वग॑स्य मा॒ᳪसम॑भव॒न्न ला॒जाः
tád asya rūpám amṛ́taṃ śácībhiḥ tásro dadhur devátāḥ saṃrarāṇāḥ | lómāni śáṣpair bahudhā́ ná tokmábhis tvág asya māṃsám abhavan ná lājā́ḥ
その不死の姿を、三柱の神々が和合して、その力(śacī)によって据え定めた。彼の毛はさまざまに若草の芽となり、種子とはならず;彼の皮は肉となり、あたかも炒り乾かした穀粒のようであった。
तत् । अ॒स्य॒ । रू॒पम् । अ॒मृत॑म् । शची॑भिः । त॒स्रः । द॒धुः॒ । दे॒वता॑ः । स॒म्-र॒रा॒णाः । लोमा॑नि । शष्पैः॑ । ब॒हु॒धा । न । तोक्म॑भिः । त्वक् । अ॒स्य॒ । मा॒ᳪसम् । अ॒भ॒व॒न् । न । ला॒जाः