ये चे॒ह पि॒तरो॒ ये च॒ नेह याँश्च॑ वि॒द्म याँ२ उ॑ च॒ न प्र॑वि॒द्म । त्वं वे॑त्थ॒ यति॒ ते जा॑तवेदः स्व॒धाभि॑र्य॒ज्ञँ सुकृ॑तं जुषस्व
yé cehá pitaró yé ca néha yā́ṃś ca vidmá yā́ṃ̐ś ca ná pravídma | tváṃ véttha yáti te jātavedo svadhā́bhir yajñáṃ sukṛ́taṃ juṣasva
ここに在ます父祖たち、またここに在さぬ父祖たち。われらが知る者、また明らかに知り得ぬ者——ジャータヴェーダス(Jātavedas)よ、彼らの赴くところを汝は知る。スヴァダー(Svadhā)をもって、よく成されたこの祭を嘉して受けたまえ。
ये । च । इह । पितरः । ये । च । न । इह । यान् । च । विद्म । यान् । उ । च । न । प्रविद्म । त्वम् । वेत्थ । यति । ते । जात-वेदः । स्वधाभिः । यज्ञम् । सु-कृतम् । जुषस्व